________________
कयव
श्री कयवन्ना-चरित्रम् कयवन्नाशाहः 'वृद्धेयं दुःखं माऽधिगच्छत्वितिधिया धनादिकं तस्या एव मुक्तवान्। ततः ससरमणीभिः सत्रा सुखमनुभवन् कयवना प्रत्यहं सतां प्रीतिमिव सम्पत्तिमेधयन्नासीत्। यत्र पुण्यमस्ति तत्र सर्वमित्थमेव जाजायते। उक्तं च -
सुकुलजन्म विभूतिरनेकधा, प्रियसमागमसोख्यपरम्परा । नृपकुले गुरुता विमलं यशो, भवति धर्मतरोः फलमीदृशम् ॥
व्याख्या - येन पुंसा धर्मतरुरारोप्य प्रावर्धि तस्येदृशं फलं भवति-किलोत्पद्यते। तथाहि-सुकुले जन्म, अनेकधा-बहुप्रकारा विभूतिरैश्चर्यम्, प्रियजनसमागमेन सौख्यपरम्परासातत्येन सुखानुभूतिः, नृपकुले-राजसभायां गुरुता-मान्यता, विमलं यशःकीर्तिः, अतो धर्मः सर्वैराराधनीयः।। ___ अथैकदा चरमतीर्थङ्करः श्रीमहावीरप्रभुः सकलं महीतलं पावयन् राजगृहे नगरे समवसृतस्तत्र देवतया समवसरणं विरचितम्। तदैव वनपालो वीरागमनं श्रेणिकक्षितिपतिं व्यजिज्ञपत्। तदाकर्ण्य हर्षातिरेकात्पुलकिततनुरुहो राजा वर्धापनाय पारितोषिकं प्रदाय सहान्तःपुरैः, सानुचरः प्रधानादिवर्गानुगः प्रभोर्वन्दनायै चचाल। तदनुगः पुरवासी नरनारीगण आबालवृद्धः ससप्रेयसीसहितः कयवनाशाहश्च प्रमुदाऽचालीत्। तत्रागता नृपादयः क्रमशः प्रभु त्रिः परिक्रम्य ववन्दिरे, यथोचितस्थाने समुपाविशंश्च। ततो मेघगम्भीरया गिरा धर्मदेशनां प्रारेभे भगवान्
अये भव्यप्राणिनः! अमुष्मिन् संसारे सर्वमसारमेवास्ति। यदपि पुत्रकलत्रधनपरिवारादि लोकं लोकं देहिनः प्रमोदन्ते, तदपि परिणामे दुःखनिदानमेव वित्त। अत ईदृशे विद्युदाभे जगति भवजलधिपोतप्रायं स्वर्गापवर्गप्रदं धर्ममेव प्रशंसन्ति। अस्मिंल्लोके महासागराकारे ये प्राणिनः पुनः पुनर्भ्राम्यन्तः सुकृतशतैर्महताऽऽ
187