________________
श्री कयवन्ना - चरित्रम्
कारयित्वा तन्मध्ये समुचितासने कयवन्नाशाहस्यानुरूपां मनोहरां मूर्त्तिं संस्थाप्य सर्वत्रनगरे पटहं वादितवान् यदयं चतुर्वदनो महावीरः साक्षाच्चिन्तामणिरिव सकलमनोवाञ्छितं ददाति, अतः सर्वैरेवाऽऽबालवृद्धस्त्रीपुरुषैरत्रागत्य द्रष्टव्यः । तदैकं प्रत्यक्षफलदातृत्वं तत्रापि राजशासनमिति सकला अपि बालवृद्धस्त्रीपुरुषास्तत्रगमागमौ कर्त्तुं लग्नाः । तस्मिन्नवसरे प्रागेवाभयकुमारः कयवन्नाशाहश्च तत्रागत्योपाविशताम्। क्रमिकागतांल्लोकान्प्रेक्षमाणः कयवन्नाशाहः प्रथमं तां वृद्धां, तदनु ताश्चतस्रः कान्ताः ससुताः सम्प्रेक्ष्य समुपलक्षयाम्बभूव, परमेताः किमपि नाऽभाषिष्ट, मौनमेव शिश्राय । ता अपि तां मूर्त्तिमालोक्य किञ्चिद्विहस्यौदास्यमापेदिरे । तत्रैवावसरे ते चत्वारः सूनव आलोक्य समाश्लिष्यन्तः पिताजी पिताजीति जल्पन्तस्तदीयं वसनमाक्रष्टुं प्रारेभिरे । तत्रैकोऽवक्तात! अद्य किमभवत्, येन न भाषसे न वा हससि ?, द्वितीयो जगाद - पितः ! पुरा त्वं क्षणमपि निजोत्सङ्गान्मां नो पृथक् कुर्वीथाः, एतावन्ति दिवसानि क्वाऽगाः ? तृतीयोऽवदत्, अये पितः । पितामही मां प्रत्यहं भीषयते, तां कथं न वारयसि ?, तुरीयोऽवक्-मया विना पुरा जात्वपि नाऽभुङ्क्थास्तर्हि सम्प्रत्येकाकिना त्वया कथं भुज्यते ? इत्थं लपन्तस्ते चत्वारः शिशवस्तां मूर्त्तिमुत्थापयितुं लग्नाः । तात ! उत्तिष्ठ, निजगृहे चल, अत्रैवमुपवेष्टुं न दास्याम इत्युचिरे च । एतदाश्चर्यविलोकनेन विस्मितोऽभयकुमारः सत्यमेते शिशवः स्त्रियश्चैताः कयवन्नाशाहस्यैवेति निश्चिकाय । तदनु तां वृद्धां ताः कान्ताश्च पृथगेकत्र भवने लात्वा सकोपं पप्रच्छ-अरे! कस्यैते शिशवः, इमा वनिताश्च कस्येति ? तथ्यं ब्रूहि, असत्यं वदिष्यसि चेच्छूलिकां दास्यामि । इति श्रुत्वा सा वृद्धा यथाजातं तत्सर्वं सत्यमवादीत् ! ततः स कुमारो धनभवनादिसहिताः ससुतास्ताः कान्ताः कयवन्नाशाहाय दापितवान्, परं कृपालुः
186