________________
श्री कयवन्ना-चरित्रम्
अथैकदा कयवन्नाशाहस्य प्राग्भूतानां चतसृणां रमणीनां तावतां पुत्राणां स्मृतिर्जाता, तदवलोकनाय नितरामौत्सुक्यमप्यजायत, परं तदालये तिष्ठन्नपि द्वादशवर्षाणि गृहाबहिः कदापि नाऽगात्। तदावासमजानानः सर्वमेतदभयकुमाराय सुहृत्तमाय व्याचख्यौ। तदैनं कुमार एवमवादीत्-सखे! धैर्यमाधेहि किञ्चित्कालमपेक्षस्व, अवश्यमहमचिरादेव त्वां तत्पुत्रकलत्राभ्यां सङ्गमयिष्यामि। यद्यप्येतदतीवदुष्करं जानामि तथापि केनाप्युपायेन तत्साधयिष्याम्येव। तदुक्तम्
उपायेन हि यत्कुर्यात्तन्न शक्यं पराक्रमैः । काक्या कनकसूत्रेण, कृष्णसर्पो निपातितः ||१||
तत्कथा चैवम्-कस्मिंश्चित्तरौ वायसदम्पती निवसतः। तयोश्चापत्यानि तरुकोटरावस्थितकृष्णसर्पण खादितानि। ततः पुनर्गर्भवती वायसी ब्रूते-स्वामिन्, त्यज्यतामयं तरुः। अत्र यावत् कृष्णसर्पस्तावदावयोः सन्ततिः कदाचिदपि न भविष्यति। वायसो ब्रूते-प्रिये! न भेतव्यम्। वारं वारं मयैतस्य महापराधः सोढः, इदानीं पुनर्न क्षन्तव्यः। वायस्याह-कथमनेन बलवता साद्धं भवान् विग्रहितुं समर्थः? वायसो ब्रूते-अलमनया चिन्तया। वायसी ब्रूते-तर्हि यद् कर्तव्यं तद् ब्रूहि। वायसोऽवदत्-प्रिये! अत्रासन्ने सरसि राजपुत्रः सततमागत्य स्नाति, स्नानसमये तदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा धृत्वाऽऽनीयास्मिन् कोटरे धारयिष्यामि। अथ कदाचित्कनकसूत्रं दृषदि संस्थाप्य स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम्। अथ कनकसूत्रानुसरणप्रवृतैः राजपुरुषैस्तत्र कोटरे दृश्यमानः कृष्णसर्पो व्यापादितः। अतोऽहं ब्रवीमि, उपायेन हि यत्कुर्यादित्यादि।
तदनन्तरमभयकुमार एकं रमणीयतमं भवनं सुसज्जितं
185