________________
श्री कयवन्ना-चरित्रम् द्धिकस्ताभ्यां सुशीलाभ्यां पत्नीभ्यां परमं सुखमनुभवन् सुखेन कालं व्यत्येतुं लगः।
अथान्यदा राज्ञः श्रेणिकस्य प्रेयान् सेचनकनामा द्विपेन्द्रः सरसि जलं पिपासिषुरायातः। तत्रान्तः प्रविशन्नेकेन बलीयसा जलजन्तुना गाढमाक्रामि। तदवस्थं तमालोक्य तन्मोचनाय लोकैरनुष्ठिताः सकला अप्युपाया मुधैव जज्ञिरे। ततः खिद्यमानेन नरनाथेन प्रतिचतुष्पथं तत्र नगरे पटहो वादितः-यः कोऽपि सेचनकमेनं गजेन्द्रं ततो मोचयिष्यति, तस्मै बहूनि धनानि निजां पुत्रीं च दास्यामि। तच्छ्रुत्वा स कान्दविको दध्यौ-यन्मया महार्ह रत्नं लब्धं तदस्मिन्नवसरे समुपयुज्येत चेन्मे महानेव लाभो जायेत। इति निश्चित्य तद्रत्नं लात्वा तत्रागत्य तद्रत्नं जले प्राक्षिपत्। तत्प्रभावाद्वारीणि दूरमुपगतानि, तदनु गजपाधैं तन्मुमोच। तत्प्रभावात्ततोऽतिदूरं गते नीरे तत्कालमेवैनं मुक्त्वा स जन्तुः पलायत। यतो यादसां बलं पयस्येव तिष्ठति, ततोऽनामयः सेचनकः स्वस्थानमागात्, नरनाथश्च तदुपरि भूरि प्रसीदत्तराम्। परमेतदत्याश्चर्य प्रेक्ष्य कुशाग्रधीरभयकुमारो व्यमृशत्-'यदीदृशसाधारणकान्दविकौकसि किलेदृशमहार्हरत्नेन जात्वपि नैव सम्भवितव्यम्, धन्वभूमौ कल्पशाखिनेव। किन्त्वमुष्य रत्नस्य केनचिदन्येनैव प्रभुणा भाव्यम्' इत्यवधार्य तमन्विष्यमाणः प्रान्ते तन्नायकः कयवन्नाख्य इत्यबोधि सः। अत एव राजकन्यां तेनैव पर्यणीनयत्, प्रभूतं धनादिकं च ददिवान्। ततोऽसौ सर्वत्र कयवनाशाह, इति नाम्नाऽपप्रथत्, मान्यश्च सर्वेषां पौराणामध्यजायत। तदनु रतिमपि लज्जयन्तीभिस्तिसृभिः प्रेयसीभिः सत्रा कयवनाशाहः स्वैरं भोगं भुञ्जानः प्रामोमोदीत्तमाम्। ततः प्रभृति प्रधानमन्त्रिणाऽभयकुमारेण साकं गाढं सौहार्दमप्यधिष्टतमामेतस्य। 1. परा+अ+अय् (१ गण आत्म.)। 2. मरुभूमौ।
184