________________
श्री कयवन्ना-चरित्रम् तदपि नालीकं, किन्तु तथ्यमेव, तर्हि यदभून्मे मनोरमाचतुष्टयीसुखानुभूतिः पुत्रैश्चतुर्भिः सह चिरमाह्लादस्तदेतत्स्वप्नोपममेव मन्येत किम्? नहि नहि स्वप्नावलोकितं जाग्रत्कोऽपि नो वीक्षते, मया तु जाग्रतापि ताः कान्ताः पुत्राश्च चिरं लालिताः, तर्हि भ्रान्तिर्वा कथं मन्येत? इत्थमुत्कटकोटिकया कल्पनया भ्रान्तोऽसौ कयवन्नास्तद्देवालयार्चकेनोपलक्षितः स्वसदनमानीतः। तत्रागत्य सदनान्तः प्राविशन्नेकं द्वादशवर्षीयं डिम्भमद्राक्षीत्।
वाचकाः! कोऽयं शिशुरिति युष्माभि वेदि। अतो वेदयामियदाऽसौ कयवन्ना विदेशमगमत्तदा जयश्रीरन्तर्वत्नी किलाऽऽसीत्, सैव काले पुत्रं प्रासोष्ट, स एवाद्य द्वादशवार्षिको जातः। समायातं कान्तमालोक्य प्रमुदिते ते द्वे पत्न्यौ तदभिमुखमागत्य सत्कृतवत्यौ। तत्रावसरे महताऽऽनन्देन निजानुभूतमत्यद्भुतमुदन्तं पत्न्यग्रे वक्तुं प्रववृते सः। तावच्छालां यियासुः शिशुभॊजनमयाचत, तदाऽसौ ग्रन्थिमुन्मुच्यैकं मोदकं तस्मा अदात्। तं नीत्वा शिशुर्लेखनशालामाययौ, याते च मध्याह्नावकाशे द्वितीयेन छात्रेण साकमेकत्रोपविश्य मोदकमभनक्, तन्मध्यादेकममूल्यं महारत्नमुच्छल्य किञ्चिदूरेऽपसत्। अतिभासुरं तद्रत्नं गृहीत्वा कोऽपि कान्दविकशिशुः पलायश्चक्रे, तदनुपदं स्वकीयं तदादातुं कयवनात्मजोऽपि दधाव। कियदूरं गत्वा स शिशुः स्वापणे प्राविशत्तदा तत्रापणेऽसौ रोरुद्यमानोऽतिष्ठत्, कुतश्चिदागतः कान्दविकस्तत्कारणं विदित्वा निजपुत्रस्य पाणी बहुमूल्यकमलभ्यं रत्नमालोक्य तल्लात्वा गुप्तस्थाने न्यस्य रुदन्तं तं बालकं प्रचुरमिष्टान्नदानेन प्रासीसदत्। इतश्च मध्याह्नवेलायां पत्नीभ्यां सहितः कयवन्ना चिखादयिषया मोदकाँस्तानभांक्षीत्तदा तन्मध्ये रत्नत्रयीं बहुमूल्यकामपश्यत्। तदनु तानि रत्नानि विक्रीय नानाविधान्महतो व्यापारान् प्रकुर्वन् बहूनि द्रव्याण्यर्जयन्नत्यल्पेनैव दिनेन महेभ्यपदवीमियाय। अथैवं सकल
183