________________
श्री कयवन्ना-चरित्रम् भोगं भुञ्जानो द्वादशमुहूर्तवद् द्वादशवर्षाणि व्यत्यैष्ट, जज्ञिरे च तासु तस्य चत्वारः पुत्राः, एषु चैधित्वा लेखनवाचनादौ पाटवमुपगतेषु सा वृद्धा मनस्यशोचत्-यन्मे सत्सु चतुर्षु योग्येषु पौत्रेषु कथमपि मामकं धनभवनादिकमवनीजानिर्लातुं नार्हत्यतः पुमानयं गृहाबहिरेव कर्त्तव्यः, इत्यवधार्य ता आख्यत्
वध्वः! यदर्थमयमानीतस्तत्त्वसेधीत्, सम्प्रति यातेषु भवतीनां पुत्रेषु पुंसोऽस्यापेक्षणं नैवास्तीति हेतोर्यतः स्थानाद्यथाऽर्कवर्षात्प्रागयमानीतस्तथैव तस्मिन्नेव स्थानेऽसौ मोक्तव्यः। तदा ता ऊचिरे-अये श्वश्रुः! किमेवमघटितं भाषसे? यं निजगृहमानीय पति मन्यमाना वयं पुत्रवत्योऽभूम, धनसदनयो रक्षां च कृतवत्यः, येन सत्राऽर्कमितानि वत्सराणि पत्येव निस्त्रपाः सुखमन्वभूम, तमिदानीमधमा इव कथं त्यजामः?, इत्थं ताभिर्निगदिते सा वृद्धा महाकोपाटोपं दर्शयन्ती जगाद-अरे! किमेवं भवत्य एव ममापि श्वश्र्वोऽभूवन्? यद्येनं चिरमत्र स्थापयिष्यथ, तर्हि नूनमयमेव सकलधनभवनादेर्नायको भविष्यति, अतस्तूर्णमेवाऽसौ निष्कासनीयः सदनादस्मात्तथा करणे मनागप्यालस्यं मा विधत्त। किन्त्वस्यां रजन्यामेवैतद् विदधीध्वम्। ततस्तास्तथैव करिष्याम इति तामाभाष्य गुप्त्या चान्तः क्षिसमहार्हरत्नाँश्चतुरो मोदकान्निर्माय ताँश्च तदुत्तरीये बध्वा निशीथे गाढनिद्रायां मग्नमेनं तस्यामेव खट्वायामारोप्य तामुत्थाप्य तस्मिन्नेव देवालये गत्वा मुमुचुः।
उषसि देवालये सञ्जातघण्टारवश्रवणात्कयवनोऽजागरीत्तमाम्, तूर्णमुत्थाय तत्राऽऽसीनः परितो विलोकमानस्तस्यामेव खट्वायामतिमलिनजीर्णकन्थायां पतितं स्वमपश्यत्। तत्रावसरे दध्यौ-किमयं स्वप्नस्तथ्योऽतथ्यो वा? यदिदानीं ता मे चतस्रः प्रेयस्यो न दृश्यन्ते, न वा ते चत्वारः शिशवः प्रेक्ष्यन्ते? प्रागहं सांयात्रिकेन सार्ध देशान्तरे व्यापत्तुं रात्रौ गृहानिर्गत्यात्रैवाऽस्वाप्सम्,
182