________________
श्री कयवन्ना-चरित्रम् तदने किमपि कत्तुं न पारयामः।'
इत्थमालपन्तीषु तासु सा वृद्धा तत्रागतवती, तामालोक्य ता मौनं भेजिरे। परमेषा तासां मुखादिचेष्टया ज्ञातवती, यदेताः किमपि परामृशन्तीति तेन प्रचण्डतां वितन्वती सा ता इत्याख्यतम्अत्र मिलित्वा किं वण्टयथः! सत्यं जानीत यन्मत्परोक्षे भवतीभिः कृतोऽपि विमर्शः कदापि नैव फलिष्यति, यदनुष्ठेयम्, तन्मत्समक्ष एव मन्त्रयत। मदाज्ञामृते भवतीभिरेकपदमपि गन्तुं नैव शक्यते। अद्यावधि ममेव वस्तावन्ति वर्षाणि नैव जातानि, अत एव व्यावहारिक कौशल्यं भवतीनामिदानीं कथमुदीयात्? अद्य यद्ययं पन्था मम न स्फुरेत्तर्हि श्वर्भोक्तुमपि वः काठिन्यमेव जायेत, सकलं धनभवनादिकं राजसादेव स्यात्, अत एव मया यदकारि तद्विमृश्यैव, तत्र लेशतोऽपि मा संशयीध्वम्, न वा शिरांसि धुनत, किन्तु मामकीमायती श्रेयस्करी शिक्षा सहर्षमुरीकृत्य यूयमानीते योग्यतमपुरुषेऽस्मिन् भर्तृधियं कुरुत, अमुं बह्वीमतिगाढप्रीतिं दर्शयत। अहमपि पुत्रस्नेहमेव वितनिष्यामि, यथाऽयमाशु भवतीनां चिरतरबहुतरपरिचयेन गाढप्रेम्णा निजमतीतं सर्वमेव विस्मरिष्यति, परकीये सदने वर्ते, विजातीये वा निवसामीत्यादिकल्पना सकलापि मानसे कदापि नोदेष्यति। यत्र गृहे पुराऽऽसं तदिदं नास्ति, एते मदीयकुटुम्बवर्गादन्ये सन्तीत्यादि सर्वापि भावना यथा स्वप्नवद् भासेत, तथा भवतीभिर्विधातव्यम्। एष एव ममोपदेशः परिणामहितकरः सर्वाभिरवश्यमेव ग्राह्यः, नो चेदायतौ महती हानि|भविष्यतीति तथ्यं जानीत।
इत्थं श्वश्रूवचसा ताश्चतस्रो युवतयस्तद्भीत्या नवनीतमिव मार्दवं नीताः शनैः शनैः प्रवृद्धपरिचयरागोदयादिना कयवन्नाख्ये तस्मिन् पुरुषे दाम्पत्यभावं वितेनिरे। ततो भवितव्ययोगप्राबल्यादसौ पुमान् परिपूर्णतारुण्यलावण्याम्बुवापिकाभिस्ताभिश्चतसृभिः सार्ध
181