________________
श्री कयवन्ना - चरित्रम्
उत्तिष्ठोत्तिष्ठ, आह्निकं कर्माशु विधेहि ?
इत्थं वृद्धायाः प्रपञ्चकल्पना तु कयवन्नामनःप्रोद्भूताश्चर्योदधिमुच्छालितवत्येव, अत एव स गम्भीरविचारे पपात यदहं सदनस्यास्य न प्रभुः। निगदति चेयं वृद्धा मां पुत्रम्, परमेतज्जात्वपि नैव घटते। कथमेतां रम्भोपमां स्त्रीचतुष्टयीं स्वीयां मंस्ये, मम तूभे पन्त्यावेव स्तः । ते अपि ताभ्यो भिन्ने एव । कथमीदृशो व्यत्यासः सहसैवाऽजनि ?, किमहं स एव कयवन्नाख्योऽस्मि, अन्यो वेति संशये समुदिते कतिपयात्मीयविनिर्णीतलक्षणदर्शनान्निश्चीयते-यत्स एवाऽस्मीति, परन्तु किमर्थं केन वेदृशमहाद्भुता मायारचनाऽकारीति नो ज्ञायते, सुषुप्सौ खलु तादृशस्वप्नावलोकनाद्भविष्यतः कल्पनां कुर्यां चेत्तदपि नो घटते। यतः स्वप्नो हि निद्राणस्यैव संभाव्यते, अहमधुना प्रबुद्धोऽस्मि भ्रान्तिर्वाऽज्ञाने जायते। नाहमज्ञानी, इत्थं नानाविधकल्पनया यत्समाधेयं तदबोधि कयवन्नाख्यः ।
इतश्च ताश्चतस्रो युवतयो रहसि गत्वा किमपि मन्त्रणां मिथः कर्तुं लग्नाः। तासु प्रथमा जगाद - 'भगिन्यः! एषा रण्डा सर्वा अपि नः स्वसदृशीरेव विधित्सति किम् ?, कथमानीतमेनं पुरुषं पतिं कर्तुमर्हामः? द्वितीया न्यगादीत् ' - अरे ! एवं जातुचिदपि न भवितुमर्हति किमेकस्मिन् भवे भवद्वयेन भवितव्यम्, कुलजानां ललनानां तु कदाऽप्येवं नो युज्यते, याश्च नीचकुले जायन्ते तासामेवैवं घटते, वयं तु सत्कुले समुत्पेदिमहे तर्हि येन केनापि पुंसा सत्रा पतिसम्बन्धं कथं कुर्मः, तृतीया जल्पितवती - 'सख्यः ! सर्वमेतत्सत्यमस्ति परमेषा रण्डा यद्वक्ष्यति तदेव सर्वासां करणीयं भविष्यति, तद्विरुद्धं त्वेकपदमपि चलितुं नैव प्रभवामः। न वा तस्या अग्रे किञ्चिदपि वक्तुं शक्तिं बिभराम [बिभृमः ] ।' चतुर्थी जगाद-'वयस्यः! एषा नरपिशाची त्वस्माकं हृदयमपि कृन्तेत्तदापि
180