________________
श्री कयवन्ना - चरित्रम् अस्मदर्थमुन्मना मा भूः, गृहाद्यर्थमपि चिन्ता नो कार्या, आवां जात्वपि मा विस्मार्षीः । जाने तदेतत्साक्षाल्लक्ष्मीसरस्वत्योराशिषमिव मन्वानः कञ्चनाऽननुभूतमेवानन्दमियाय, अत एव प्रमुदितोऽसौ कयवन्ना तदानन्दकल्लोलितस्ततः प्रययौ ।
पोतश्च प्रभाते यास्यति निशायां क्वचित्स्थित्वा विश्रान्तिः कार्येति धिया नगराद् बहिरेकत्र देवालये प्राविशत् । तत्र चैको भग्नप्रायो मञ्चको जीर्णतरा कन्था च प्रैक्षि, ततस्तामेव कन्थां मञ्चकोपरि संस्थाप्य सुष्वाप ।
अथाऽसौ सुखसुप्तः स्वप्ने गृहलीलां व्यापारं चालोकमान आसीत्। अथार्धरात्रे परितस्तमिस्रनिचये प्रसृते सकलेषु मनुष्येषु निद्रादेव्या उत्सङ्गे प्रसुतेषु विलुप्तलोकारवेऽतिभीतिप्रदे मध्यरात्रिसमये किञ्चिद्दूरे समागच्छन्तीः पञ्चस्त्रियः प्रेक्षाञ्चक्रे, तत्रैका करे दीपं दधानाऽऽसीत् । इतस्ततः प्रेक्षमाणास्ताः कान्ताः पञ्चापि तन्मन्दिरान्तिकं समाययुः, तास्वेका वयोवृद्धा चतस्रश्च तारुण्यपरिपूर्णा आसन्। वृद्धा च धृतपाणिदीपा तत्र देवालये समागत्य मञ्चकोपरि सुप्तमेकं पुरुषमद्राक्षीत्, आकृत्या च तं पुमांसं कुलिनं भव्यं चाऽबुध्यत । तदनु सा वृद्धा ताश्चतस्रोऽपि तरुणीराकार्याssज्ञापयाञ्चकार-अये तरुण्यः ! अद्य भगवान् प्रससाद, सिद्धश्च मे मनोरथः, यूयं तूर्णं सखट्वमेनं पुरुषं सुखसुप्तमुत्पाट्य स्वीयं सदनं नयत, विलम्बं मा कृषत ( कुरुत ), इति वृद्धोक्तिमाकर्ण्य तत्कालमेव तास्तथा विदधिरे, सा वृद्धा च दीपेन मार्गं दर्शयन्त्यग्रे चचाल। ताश्च तां खट्वां मनागप्यकम्पयन्त्यो मौनमेव भजन्त्यस्तामनुजग्मुः। वृद्धाया भीत्या द्रुतमेव तास्तं मञ्चकं सपुरुषं स्वसदनं निन्यिरे।
भो भव्याः! ता युवत्यः का आसन् ? इति निवेदनमन्तरा वः कथास्वादो नोदेष्यतीति मत्वा तासां परिचय दीयते - इमाः खलु तस्या वृद्धायाः पुत्रस्य पत्न्य आसन् । तस्यामेव रजन्यां द्वित्रिषट्याः
178