________________
श्री कयवन्ना-चरित्रम् त्तामपि देवदत्ता सादरं ज्यायसी भगिनीमिव प्रणनाम, मधुरया गिरा व्याजहार च, तत्रावसरे उभे ते सोदरे भगिन्याविव मिथः काञ्चिदगदनीयामेव प्रीतिं प्रापतुः, सापत्न्यं च विहाय मनसालवमपि नानीय द्वे अपि नितरां मुमुदाते। तदा तयोः प्रमोदसागरः सीमानमौज्झत्, ते च प्रमुदिते विलोकमानः कयवन्नाऽपि नितरां तुतोष, प्रेममूर्तिभ्यामाभ्यां सह सुखमनुभवन् समयं व्यत्येतुमलगत्।
अथैकदा कयवना देवदत्ताऽऽनीताऽऽभरणं क्वचिदापणे विक्रीय तदर्धं पत्नीद्वयनिर्वाहायाऽतिष्ठिपत्, अर्धेन च व्यापर्तुमैषीत्। अथैकस्मिन् दिवसे कस्यचिदेकस्य 'सांयात्रिकस्य पोतो जिगमिषुरस्तीति श्रुत्वा तस्मिन्नेवोपविश्य व्यापारविधित्सया देशान्तरं यियासुरभवत्, अत एव गृहव्यवस्थां विधाय द्वे अपि पत्न्यौ समाहूय वक्तुमारेभे-अयि देव्यौ! सम्प्रति धनोपार्जनाय देशान्तरं जिगमिषामि, अतो युवां तावन्मामकं वियोगं सुखेन सहेथाम्, निजाचारपालनतत्पराभ्यां भवतीभ्यामवसरे धर्मोऽप्याराधनीयः, यथावकाशं सामाजिकाः स्त्रिय एकत्रीकृत्य स्वीयसद्विचारः प्रवर्त्तनीयः। प्रेयस्यौ! त्वादृशकलाकुशलचतुरतरललनाः किमन्यत्कथयामि?
इत्थं स्त्रीद्वयमाभाष्य सायकाले स गेहाच्चचाल। तत्रावसरे स्त्रीभ्यां भणितः - प्राणनाथ! 'याहि' इति निगदितुं जिह्वा कथमपि नोत्तिष्ठति, परमेतर्हि माङ्गलिकेऽवसरेऽपशकुनं मा भूदिति तदपि सुखेनैव जल्पावः-इदानीमानन्दजातमपि नयनजलममङ्गलमिति भिया तदपि नैव मुञ्चावः। केवलमेष एवाऽऽन्तरहर्षोद्गारो विलसति, यद् भवान् कुशलीभवन् निजेष्टसिद्धिं विधाय तूर्णमत्रागत्यावामालादयतु, शासनदेवताश्च ते पन्थानं सुखमयं कुर्वन्तु विघ्नांश्च निघ्नन्तु, देशान्तरे च सदैव सावधानेन त्वया स्थातव्यम, मनागपि 1. जलपोतद्वारा व्यापार करनेवाला।
177