________________
श्री कयवन्ना-चरित्रम् तत्रापि लेशतोऽपि तत्रभवतां दोषो न दीयते, किन्तु पुराकृतनिजकर्मणामेव। अतः क्षमाप्रार्थनमपि तव नैव घटते। दैवादागतोऽस्यधुना, तेनानुमीयते यदवशिष्यते मद्भाग्यमपि। यद्यप्यधुना तत्रभवतां गेहे दुर्दशा जातास्ति, परमायतौ सर्व परिपूर्णतामेष्यति तत्र संशयो नो कार्यः। यदावयोरन्तरात्मा विशुद्धः शुभभावकश्च वर्वति। इत्थं कृतपश्चात्तापं भर्तारं सा जयश्रीराश्वासयामास।
इतश्च सा देवदत्ता वाराङ्गना कयवनोपरि भूयसी प्रीतिं कुर्वाणाऽऽसीत्, तर्हि किमभूत्, येन तामनुरक्तामपि त्यक्तवान् कयवन्नेति? इत्थं जानीत
यदाऽमुष्य गृहे निःस्वतां नीते तत्प्रेयसी स्तोकमपि धनं तस्यै प्रेषितुं नो शशाक, तदा तं निर्धनं जानाना तदक्का देवदत्तामेवं प्राह-वत्से! एतस्य सदनात्कोऽपि किमपि नैव प्रेषयति, अत एनं रत जहीहि, सदनाच्च निष्काशय, या खलु त्वादृशी रूपाजीवा विलसति सा जात्वपि निर्धनं नो भजते, किन्तु सधनं दातारमेव। यथा शाखापत्रादिना वियुक्तं वृक्षं चिरमुषिता अपि पक्षिणस्तत्कालमेव जहति, जलैर्विहीनं सरो वा पथिका उज्झन्ति। वेश्या तु धनलिप्सयैव मुधा प्रेमाणं बहिराविष्कुरुते, न कदाचिद् वास्तविकम्, यावदेवं धनं प्रभूतं प्रयच्छेत्तावदेव तस्मिन्ननुरागिण्या भवितव्यमित्येव वेश्यानां कुलपद्धतिर्वर्त्तते, निर्धनतामुपगतस्य पुरुषस्य मोहे तु नैव पतितव्यमिति वृद्धोक्तिं सा देवदत्ता साधीयसी नाऽमंस्त। यस्मादेषा तेन सत्रा यावज्जीवं प्रीतिमकार्षीत्सा खल्वन्यादृशीव धनमात्रकाङ्क्षिणी नाऽसीत्, किन्तु प्रेम्ण एव कामुकी। अत एव सकोपं तामाह-अक्के! यथा भणसि तथाकत्तुं नाहं शक्नोमि, मनुष्याणामुत्तमानां चित्तं द्वैविध्यं न धत्ते, किन्त्वेकाकारमेव। येषां मनः प्रतिक्षणं विविधसंयोगवियोगविधित्सया चक्रवत्परिभ्राम्यति, तत्तु न मानवीयं किन्तु पाशवमेव विदाङ्कुरु।
175