________________
श्री कयवन्ना-चरित्रम् भाविशुभफलसूचकम्।
दुःखस्यान्तमवगच्छन्ती जयश्रीस्तदोर्ध्वमपश्यत्, अकस्मादेव कश्चित्पुमांस्तत्रागतः प्रैक्षिः। असौ खलु साधारणवेषं विदधत् सव्रीडः सशोको लोचनाभ्यामश्रुधारां मुञ्चन्नासीत्। एनमालोक्य सा मनस्येवं तर्कयति-यदसौ कः केन हेतुना सहसाऽत्राऽऽयातः?, तदा सोऽजल्पत्-अयि प्रेयसि! शङ्कां कामपि मा गाः। स एवाहं दुर्दैवविपाकयोगात्त्वामनुरक्तां सुशीलां विहाय कुसङ्गदोषादजवद् गर्हिताचारी निस्त्रपः कयवन्नाभिधोऽस्मि। अहो! कियाँस्ते मया क्लेशोऽदायि, पुराऽप्येकदापि त्वां सुखिनीमकृत्वाऽद्यावधि दुःखाम्बुधावेव न्यमज्जयम्। निजं सुनिर्मलमपि कुलं कलङ्कयन् स एव निर्लज्जोऽस्मि, कुलजामपि स्वीयां वनितां त्यक्त्वा वेश्यागारे तदनुरागाच्चिरं निवसन्नवश्यमस्म्यहं नराधमः। मातापितरौ च वियोगाग्निना भस्मसात्कुर्वाणो नूनं नरपिशाच एवाऽस्मि। एवमात्मीयकुलाचारधर्माचाराभ्यां जलाञ्जलिं प्रदाय दुर्गतिप्रदायके कुमार्गे प्रवर्तमानः स एवाहमज्ञानान्धोऽस्मि। प्रेयसि! त्वं च मे गृहदेवतेव पूज्यतमा वर्तसे, कुलजासि, धर्मवत्यसि; धैर्य दधानाऽसि, सङ्कटे पतित्वापि नूनमुभयकुलनिर्मलकरी विद्यसे, नूनमहं तावकीनाऽतिसमुज्ज्वलशीलप्रतापात्पुनरागतोऽस्मीति जाने। तवेदृशप्रेम्णः परिपूर्णतैव बलादाकृष्य मामत्राऽऽनीतवती। देवि! यदपराद्धं मया तत्क्षमस्व इति भर्तुः कथितेन सखेदानुनयवचनेन व्रीडया क्षणं नम्रानना जयश्रीः पतिं किमपि वक्तुं नाऽचीकमत, किन्तु कृताञ्जलिः सती भर्तारमेवमवादीत्
स्वामिन्! अद्यापि किमपि नो गतम्, सकलं पुनरुक्तं भवितुमर्हति तत्सत्यं जानीहि। इयता विशेषणेन मां गुवी मा कार्षीः, यदहं तादृशोक्त्या व्रीडामेव बिभर्मि। अहं ते दास्यस्मि, अतस्तदुचितवचसैव मां भाषेथाः। यच्चाद्यावधि मया दुःखमभोजि
174