________________
श्री कयवन्ना-चरित्रम् मामवलोकयेथाः। बहुकालिकतावकीनविरहानलदन्दह्यमाना भवन्ती साम्प्रतमधीरा कथमपि धैर्य मनसि मनागपि धत्तुं नैव पारये। अनवरतं नयनयुगलसम्भूतप्रभूतवारिणा क्लिन्ना तिष्ठामि, किञ्च महति कुले सम्भूय कुलत्रपायै तिलाञ्जलिं दत्त्वाऽतिनिकृष्टवेश्यागारे निवसनं त्वादृशां श्रुतिशालिनां पुंसां लज्जामेव जनयति, अहं तु मतिविकला काचिदबला तत्रभवतां दास्यस्मि, अत एव किमधिकं जल्पामि। प्रियतमे! मेनके! तूर्णमुडीय तत्र याहि, सर्वमेतत्सन्देशं भर्तारं यथावत्कथय, इति तां सन्दिश्य गवाक्षे समागत्य तस्थौ जयश्रीः।
तत्रावसरेऽत्यायतं विशालं सदनमालोक्य निर्धनत्वात्प्रेतावासमिव भयङ्करं मन्वाना परितः प्रेक्षमाणा दुःखपूर्णहृदया भृशं सुचिरं रुरोद। तस्मिन्नवसरे कोऽप्याश्वासनकरोऽपि नासीत्, अतश्विररोदनेन तदीयाञ्चलमपि नितरां चिक्लिद, सातत्येन रोदनात्तदीये नयनेऽप्युच्छूनेऽभूताम्। तत्रैकाकिनी जयश्रियमधिकं क्रन्दन्तीं पुनः पुनरञ्चलेनाऽश्रुधारामपनयन्तीं वीक्षमाणा मेनापि दुःखातुरा रोदितुमलगत्। अस्या रोदनेन जयश्रीरधिकं खेदमाययौ, अत एव धैर्यमवलम्ब्य तस्या अश्रूणि निजाञ्चलेन पुच्छयामास। तस्मिन्नेवाऽवसरे जयश्रियाः शुभसूचनाय वामाक्षि तीवं पुस्फोर। तथा चोक्तम् -
सीताकपीन्द्रक्षणदाचराणां सुग्रीवरामप्रणयप्रसझे । राजीव हेमन्वलनोपमानि, वामानि नेत्राणि परिस्फुरन्ति ||५|| ___ व्याख्या -सुग्रीवरामयोः प्रणयस्य सखित्वस्य प्रसङ्गे-समये सीतायाः कपीन्द्रस्य-वालेः क्षणदाचरस्य दशाननस्य च राजीव हेमज्वलनोपमानि-कमलकनकदहनाकाराणि वामानि नेत्राणि परिस्फुरन्ति स्म। एतेनायातं यत्स्त्रीणां वामाक्षिस्फुरणं तत्काल1. स्फीते। . ..
173