________________
श्री कयवन्ना - चरित्रम् प्रातिकूल्यमुपगते महतामपीदृश्येव दुःस्थितिर्जायते, 'यस्मादमी जीवाः सुखदुःखे भाग्यानुसारादेव लभन्ते, यदा यदा पतति तदा तदावश्यं भोक्तव्यमेव सर्वैरपि।'
तत्र
अथैवं स्वीयां दुःस्थितिं विचारयन्ती जयश्रीः शोकसागरे ममज्ज । यदिदानीं मया किमनुष्ठेयम्, कथं वा धर्माऽविरोधेन जीवनं निर्वाह्यमित्यादि बहुधा विचिन्तयन्ती प्रान्ते सा किलेदृशीं युक्तिं सस्मार - यदियं सारिका पक्षिणी पत्या चिरं प्रतिपालिता सुपाठिता नरभाषाभाषिणी गृहे तिष्ठति, एनामेव सन्देशहरी विधाय तदन्तिके प्रेषयेयं चेदिष्टं सेत्स्यतीति मन्ये । इति निश्चित्य तदन्तिकमागत्य मेनां शिक्षितुं लग्ना - अयि प्रियसारिके! बहुदिवसादस्मिन् सद्मनि बालेव सुचिरं मम भर्त्रा प्रतिपालिता तिष्ठसि, सति च तस्मिन् बहून् भोगानभुङ्क्थाः, अत इदानीं तत्प्रतिकारं विधेहि, मम तव च पालयिता सम्प्रति वेश्यासदने वर्त्तते, गच्छ, मदुक्तं यथावत्तं ब्रूहि - 'हे नाथ! या ते सहचरी जयश्रीर्वर्त्तते, सा खलु द्वादशवर्षैस्तव वियोगाग्निना दन्दह्यते, तद्दिनादद्यपर्यन्तं त्वामपश्यन्ती निद्रां शृङ्गारं शरीरशुश्रूषणं च त्यक्तवती, किमधिकं वदामि तस्या दुःस्थितिं रसनापि नो वक्तुमुत्तिष्ठति, मन्मुखेन त्वामेवं निगदति स्म। यत् - त्वं खलु मदर्थं हंसो भूत्वापि कथङ्कारं काकतामयासीः । नूनमहं स्वर्णधिया त्वामुपेयुषी, परन्तु प्रान्ते पित्तलमेव खल्वभूः । प्राणेश! मदीयेदृशकर्कशया गिरा कोपं मा गाः किन्तु मन्तुमेनं क्षमित्वा त्वदेकशरणामनाथामनन्यगतिकामव, तावकीनदर्शनपीयूषपानकाङ्क्षिणीं मां चिरं यत्खेदयसि किमेतदुचितं मनुषे ? भवान् गुणवान् विचारवानस्ति, अतो मे ज्ञानादज्ञानाद् वा यातमपि मन्तुं क्षमेथाः । झटिति निरपराधिनीं चिरविरहिणीं जीविताऽऽशामपि त्यजन्तीं दासीं
1. अव= त्वं रक्ष इत्यर्थः ।
172