________________
श्री कयवन्ना-चरित्रम् विभ्रमो नास्ति, किन्तु मारपारवश्येन दिवानिशमेतया वारविलासिन्या ज्ञानविवेकादिमहारत्नमोषिण्या सह रममाणस्त्वमेव द्वादशवर्षाणि गतान्यपि तावन्मात्राणि घस्राणि जानीषे।' इति दूतोदितां गिरमाकर्ण्य श्रेष्ठिसूनुराह-भोः! अस्त्वेवमेव परन्तु त्वमधुना याहि, मम मातापितरौ सप्रणाममेतत्कथय यदागमिष्यति कियद्भिर्दिनैर्वा पुत्रः कामपि चिन्तां भवन्तौ मा कृषाताम्, युवां वीक्षितुमहमप्युत्सुको वर्ते, किन्तु सम्प्रति सहसा सुखमेतद्विहाय तत्रागन्तुं मनः खिद्यतेतमाम्। इति कयवन्नोक्तिं लात्वा स दूतो यथागतस्तथा प्रतस्थे, आगत्य च सर्वमुदन्तं तौ व्याजहार। __तत्रावसरे महादुःखं कुर्वन् वृद्धतमो धनदत्तो वसुमतीमाहप्रिये! पुरा त्वं मदुक्तिं नाजीगणस्तत्फलमधुना पश्य, पुत्रं विलासिनं विधित्सती साम्प्रतं पुत्रादपि निरस्ता जातासि। किमधिकं तन्मुखमपश्यतोरावयोर्गतेष्वपि द्वादशवत्सरेषु कुसङ्गात्तत्रैव त्रपां विहाय यदर्थ त्वया सर्वमेतदकारि तां वधूमपि विस्मृत्य निवसति। पुत्रशिक्षायै तथाऽऽचरन्ती भवती वधूश्च सर्व प्रासवती। इत्थं त्रयोऽपि ते ततो निराशाः पश्चात्तापं वितेनिरे। कथं पुनरयं तां विहाय गृहमेष्यतीति विमृशन्तावपि तौ कमप्युपायं नैव लेभाते। ततस्तौ तच्चिन्तयाऽनवरतं खिद्यमानौ जराजीर्णी नीरक्तकृतौ निरशनौ भवन्तौ पुत्रशोकादेव मृत्यु निन्याते।
तदनन्तरमेकाकिनी जयश्रीः सततं महादुःखं भुञ्जानाऽऽसीत्। इतश्चापणीयकोशात्ते कार्यकर्त्तारो यथाभागं सर्वमात्मसाच्चक्रिरे, यदासीत्सदने तदपि जयश्रीः पत्युरादेशेन तत्रैव वेश्यालये प्रेषितवती। इत्थं नष्टार्था सा जयश्रीरात्मोदरपूर्तिमपि विधातुं दुःखमपश्यत्। तदोपायान्तरमलभमाना तर्कुणा तन्तूनुत्पाद्य कालं गमयामास। हन्त! कीदृशं दुर्दैवविलसितमभूत्, येन सुखलिप्सयाऽनुष्ठितः सकलोऽपि तस्याः प्रयासः कष्टायैव यातः। देवे
171