________________
श्री कयवन्ना - चरित्रम् नृत्यादिकुशला भूत्वापि सदाचारिण्येवाभूत् । पुरुषान्तरं नाऽभजत, केवलं कयवन्नाभिधमेव। अनया सह रममाणस्यामुष्याऽपेक्षितानि द्रव्याणि माता वसुमती प्रेषयति स्म । इत्थं तया सत्रा रममाणस्य कयवन्नाकस्य रात्रिन्दिवस्यापि भानं नाऽभूत् ।
अथैकदा तया सार्धमट्टालिकायां सानन्दमासीन आसीत्तदा शारदीचन्द्रिकापि तदनुरागमेधयन्ती किलाऽऽसीत् । अत्रान्तरे कश्चिदनुचरोऽधस्तादवोचत् - स्वामिनि ! कश्चिदेकः पुमान् कयवन्नाभिधेन सत्रा मिलितुमागात्, भवत्या आदेशश्चेदुपरिष्टात्प्रेषयेयम्। 'अथाऽऽयातु स पुमान्' इति तयोक्ते समायातं भृत्यं तत्राऽऽनयत् । तदा पुरुषोऽवदत्-भोः ! मन्मुखेन तव मातापितरौ यदूचाते तन्निशम्यताम् - हे वत्स ! ते स्वस्त्यस्तु, गृहं त्यक्त्वा तत्र निवसतस्ते द्वादशवर्षाणि गतानि परमद्यावधिगृहागमनाय नेहसे, त्वादृशस्य योग्यतमस्य गरीयसि कुले सम्भूतस्य सत्पुत्रस्यैवं नैव घटते, आवां ते मातापितरौ साम्प्रतं जरया जर्जरीकृतौ स्वः । अत एव त्वां द्रष्टुमत्यन्तमुत्सुको स्वः । अतः शीघ्रमायाहि, गृहस्थितमापणीयं च सकलं द्रव्यं सम्भालय । अद्य श्वः परश्वो वाऽऽगमिष्यसीति मनोरथं कुर्वाणावावां द्वादशवर्षाणि व्यत्यैष्व । तत्रानागमने महदेवास्त्यावयोर्दुःखम्, अतस्तूर्णमत्रागत्य सर्वं गृहकृत्यं विलोक्य, आवां सुखिनौ विधेहि च, त्वदन्यः कोऽपि द्रष्टा नैवास्ति धनस्य गृहस्य चेति त्वामाह्वातुमागतोऽस्म्यहम् ।
इत्यनुचरेण निगदिते कयवन्नाऽवादीत्
अरे! किमेवं जल्पसि ?, किमत्र निवसतो मे द्वादशवर्षाणि व्यतीतानि ?, अहं तु तावतीं रजनीमेव जाने । माता तु प्रेमबाहुल्यान्मामकं विरहं चिरं सोढुं नैव शक्नोति, अतस्तावतीं रात्रिमपि तावन्ति वर्षाणि जानाति । तदा पुनः सन्देशहारी सचकितमाह श्रेष्ठिन् ! 'तव जनन्या द्वादशदिनेषु द्वादशवत्सरस्य
170
-