________________
श्री कयवन्ना-चरित्रम् ऽभूत्तस्यैव सांप्रतं वाराङ्गनाऽऽलिङ्गनचुम्बनगायनादिविनोदेनैव कृतकृत्यता। यस्य च प्राग् वैराग्यादन्यत्किमपि नैवारोचत, स एवाऽधुना श्रेङ्गारिकसङ्गीतरसे किलाऽऽकण्ठं निरमाङ्क्षीत्। यश्च पुरा निजप्रेयसीमपि राक्षसीमिव वैराग्यवासितहृदयदूषितकाममंस्त, स एवाऽद्य रूपाजीवाविलासभूमौ पातं पातं परमानन्दं मनुते। यः पुरा धर्मकथयैव तृप्यति स्म, सोऽयमद्य कुटिलकामिनीभोगविलासेनैवात्मानं तृप्तं मनुते। यतः -
आदित्यस्य गतागतेरहरहः संक्षीयते जीवनं, व्यापारेर्बहुकार्यभारनिकरः कालो न विज्ञायते,
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ||४||
व्याख्या - आदित्यस्य-सूर्यस्य गतागतैर्गमागमैः, अहरहः= प्रत्यहम् जीवनमायुः संक्षीयते नश्यति, च पुनः बहुकार्यभारनिकरैः अनेककार्यसंकुलैर्व्यापारैः कालो न ज्ञायते कियान् कालो यात इत्यपि नो वेत्ति, लोकानां जन्म जरां विपत्तिं मरणं च पश्यतां त्रासो भीतिर्नोत्पद्यते, अतोऽनुमीयते-यदिदं जगत् मोहमयीं-मोहात्मिकां प्रमादमदिरां प्रमत्तकरीमदिरां पीत्वा निपीय उन्मत्तभूतमभूत्। अत ऐहिकामुष्मिकनानाविधां विडम्बनां पश्यन्तः शृण्वन्तश्च लोका धर्म एव न प्रवर्तन्ते। ___अत एव कयवना शीलशालिनी नवोढां निजकामिनीमपि विस्मृत्य वेश्याया एव किङ्करीभूय तद्रागपाशेन बद्धः पशुरिवैकपदमपि गन्तुं नाऽशक्नोत्। यश्चासीत्प्रथमो विलासी सोऽपि वेश्यारागपाशे श्रेष्ठिनः सुतं गाढमाबद्ध्य श्रेष्ठिनः पार्धात्तुष्टिदानं गृहीत्वा कृतकृत्यो जातः। यस्यां वेश्यायां कयवन्ना सानुरागो जज्ञे, सा देवदत्ता इति नाम्ना प्रसिद्धाऽऽसीत्। इयं खलु
169