________________
श्री कयवन्ना-चरित्रम् येयम्?। स खलु किमप्यनुचितं नाऽऽचराति किन्तु, यदर्थं महात्मानो यतन्ते तदेवाधिगन्तुं सदैव पुराकृतसुकृतनिचयोदयादिहापि साधीयसीं भावनां भावयते, अतस्त्वं तदर्थ मा शोचीः। प्रिये! किमेतन्न वेत्सि यदेकस्य गृहस्य निर्माणे भूयान् कालो लगति, तस्यैव भञ्जने तु क्षणमपि न लगति। इत्थमेव निवृत्तिमार्गे शाश्वतसुखप्रदे प्रवृत्तिरेव कठिना। यतः पापीयांसस्तस्मिन्मार्गे नैव प्रवर्त्तन्ते, किन्तु सुकृतिन एव। भाग्ययोगात्तत्र प्रवर्त्तमानानामधःपातनं तु सर्वेषां सुकरमेव जानीहि। अत एव सन्मार्गे प्रवर्त्तमानं पुत्रं माऽधः पातयेथाः?, किञ्च स्वयं तत्र मार्गे प्रवर्तितुं न शक्नुयां चेदन्यस्य श्रेयसि मार्गे प्रवृत्तस्य विघ्नकरणे महापापीयान्, अधमाऽधमश्च स्याम्। अतः सुभगे! शुभेऽस्मिन् कृत्ये प्रस्तरं च मा क्षेपीरीदृशमलीकविचारं मा कृथाः।। __ इत्थं धनदत्तेन प्रतिबोधितापि सा वसुमती निजाग्रहं न तत्याज किन्तु रोष एवाऽधिववृधे, ततः कोपाटोपादवादीत्स्वामिन्! किमिदं ब्रवीषि?, कः पुमान् सत्याममितलक्ष्म्यां त्वमिव विषयविमुखं युवानमुपेक्षेत तदुपायं वा न कुर्वीत, किमेतदर्थमेव सुचिरं पुत्रमचीकमथाः?, हा हा!! दिवानिशं नवोढा कामिनी गृहे रोरुद्यते, पुत्रस्तु यौवन एव वैराग्यं नीतः कथमेतन्मे धैर्य नो विलुम्पेत्?, अतः कयवन्नापुत्रं विलासिजनसङ्गत्यां क्षिप, यथाऽऽशु व्यवहारे नैपुण्यमाप्नुयात्। __इत्थं पत्न्या अत्याग्रहादसौ धनदत्तो विज्ञोऽप्यज्ञ इव तथा कर्तुमुरीकृतवान्। ततः श्रेष्ठी निजपुत्रसमानवयसो यूनः पुंसो विलासिनः कतिपयानाकार्य शिक्षयामास-भोः, यथाऽसौ कयवन्ना विषयसेवने पटीयान् भवेत्तथा भवन्तो यतन्ताम्। ततस्ते विषयविलासिनः श्रेष्ठिनः पार्थात्प्रचुर धनमादाय प्रथमं वसन्तोत्सवे श्रेष्ठिनः पुत्रमानिन्यिरे। तत्रानेकतरुण्यस्तनुश्रियाऽप्सरस इव
166