________________
श्री कयवन्ना-चरित्रम् माचक्ष्व।
इत्थं पत्युर्भाषितं श्रुत्वा पुनः शोकव्याकुलतामधिगता सती भृशं रुदती धैर्यमालम्ब्य साऽवदत्-प्रियतम! गृहे वधूः सदैव दुखं भुङ्क्ते, तत्किं नो जानासि? यद्यपि तद्विजानतस्ते तद्विषये यनिगदामि तत्पिष्टपेषणमेव भवति, परन्तु तदसह्यं कष्टमेव निगदितुं भृशं प्रेरयति। यद्यपि मादृशी बुद्धिविकला स्त्रीजातीया भवादृशं मतिमन्तं किमप्युपदिशेदिति नैव घटते तथापि गत्यन्तरमलभमानया मया वक्तव्यमेव, नो चेन्महती हानिः सम्भविष्यति। स्वामिन्! पश्य पश्य आवयोरेक एव चरमे वयसि सूनुरुत्पेदे, समृद्धिस्तु भूयसी वर्त्तते, परन्तु पुत्रस्य कौशल्यं व्यवहारे विषये वा मनागपि नैव विलोक्यते, दिवानिशं वैराग्यशास्त्रमेव त्यागीव भावयते। यदि तदेव योग्यं मनुषे तर्हि रम्भोपमया कन्यया सह तदुद्वाहः कथमकारि? मया तु वध्वा ईदृशं दुःखं सोढुं नैव शक्यते। तत्र भवतापि व्यवहारनिपुणेन तदुपेक्षणं नैव कर्त्तव्यम्, अतोऽहं प्रार्थये यथाऽऽशु कयवना सांसारिके व्यवहारे मनो ददीत तथा प्रयतस्व। अत्राऽऽलस्यं मा गाः, यथा च वधूटयां पत्न्यामनुरज्येत्तथाऽहाय विधातव्यम्। ____ अथाऽमुना ललनालपितेन धनदत्तस्तस्याः कीयती धीरिति परिमाति स्म, तथा स्त्रीषु नैसर्गिकं मतिमान्द्यं प्रतिपादयत्सु नीतिवाक्येषु च प्रामाण्यं जग्राह। अत्रावसरे तत्प्रतिबोधनाय श्रेष्ठी न्यगादीत्-अयि सुन्दरि! तवेदं वचो वैषयिकलोकानामेवोपयुङ्क्ते, परन्तु आवयोः पुत्रः कयवन्ना तु तदसारमेव मनुते, वर्तते च परमार्थविचारे। यस्य लक्ष्मीरल्पीयसी भवति स एव सुतं गृहकृत्ये व्यवहारकृत्ये च योजयते। मम तु लक्ष्मीरपरिमिता तिष्ठति तर्हि कथमात्मकल्याणकारिपथादुत्तार्य मिथ्यात्वमये प्रपञ्चे तं पात1. शीघ्रम्।
यम्।
165