________________
श्री कयवन्ना - चरित्रम् नैव प्रससाद। भवद्गृहागमनदिनादद्यावधि तावकः शिशुर्विहसन्नेकवारमपि मां नाऽवोचत्। पूज्यतमे ! यत्सुखं लिप्सन्ती मातापितरौ निजसखीं च हित्वा भवत्याः सदनमागाम्, तत्सुखस्याऽलाभे कस्याग्रे पूत्कुर्याम्?, किं मे तं विना कोऽप्यन्यः सुखयिता सम्भवति ? यस्मिंस्तादृक्सुखाशां कुर्याम् ?, यदीदृश्येव दुःस्थितिश्चिरं तिष्ठेत्तर्हि बालविधवातोऽप्यधिकं दुःखमनुभविष्यामि । त्वं खलु शिरश्छत्रमसि, अतो मामकं सोढुमशक्यं दुःखमवगत्य तन्निवारणोपायमचिरं विधाय मे नवोज्जीवनं प्रदेहि । यथाग्रे पुनरीदृशदुःखभाजनं न स्याम्, इतोऽग्रे यावन्निगदितुमिच्छति तावदनुभूतदुःखातिरेकाद्विदीर्णहृदया केवलमश्रुधारामेव मोक्तुं लग्ना सा जयश्रीः ।
इत्थमाक्रोशन्त्याः पुत्रवध्वाः शोकेन शोकाकुलीभूता श्वश्रूरपि क्षणं रुदित्वा वध्वा अश्रूणि व्यपनीय तामवादीत् - वत्से ! मा शोचीः, तवेदं दुःखं श्रोतॄणामपि दुःसहं मन्ये, या ते विद्वेषिणी सापीदृशं दुःखं जातुचिदपि माऽनुभूत्। ईदृशं सर्वर्द्धिसदनमागत्यापि त्वमन्तर्गतदुःखाग्निना दन्दह्यसे तन्नो द्रष्टुं शक्नुयाम् । अतस्त्वं धीरा भव, दुःखं जहाहि । अद्यप्रभृत्येव तव दुःखविघाताय यतिष्ये, एतत्सत्यं विदाङ्करोतु भवती । यथाचिरादेव सर्वं मनोदुःखमपनीय त्वां सुखिनीं विधास्यामि, त्वमिदानीं निश्चिन्ता भव। यावत्ते दुःखं वरीवर्त्ति तावदहं दुःखमेवाऽनुभवामि, लेशतोऽपि सुखमधिगन्तुं नार्हामि । इत्थं तामाश्वास्य तदैव सा निजपतेरभ्याशमागत्य शोकातुरा तस्थौ । अथैनां म्लानवदनामालोक्य धनदत्तः श्रेष्ठ्यपि किञ्चित् साशकोऽभवत्, सापि दुःखातिशयात्स्तब्धीभूता किमपि जल्पितुं नाशकत्। तावद्धनदत्तोऽजल्पत्-प्रिये ! कथमद्य तव मुखं सखेदमालोक्यते ?, किं कश्चिदुत्पातो जातः, अथवा किममङ्गलमजायत, येनेदृशं विच्छायं वदनं दधासि ?, त्वामीदृशीं प्रेक्ष्य महान्मे संशयो जायते, अतः सत्वरं मनोगतं दुःखकारण
164