________________
श्री कयवन्ना - चरित्रम्
नास्तीति जानानापि परमनया वार्त्तया वध्वा बहुदुःखं भविष्यतीति धिया तदग्रे कदापि तां वात्तां न व्याजहे ।
अथैकदा विच्छायवदनां चिन्तातुरां जयश्रियं विलोक्य श्वश्रूरपृच्छत्-वत्से ! कथमद्य तवाऽयं वदनशशी शोकस्वर्भानुना ग्रस्तप्रायो दृश्यते? किं ते मातापितरौ स्मृतिपथमायातौ ? अथवा किमप्यपूर्वं वसनं भूषणं वा परिधातुमना औत्सुक्यं वहसि ?, कापि दासी दासेरो वा तवाऽऽज्ञामभनक् ?, अथवा मत्पुत्रेणावज्ञातासि? वत्से। सदैव तवाननं प्रसन्नमालोकि, तदेवाऽद्य चिन्तातुरं विच्छायं दरीदृश्यते कथम्? सत्यं विद्धि - अहं खलु तव सुखदुःखाभ्यामेव सुखिनी दुःखिनी वा भवामि, त्वामहं पुत्रीतोऽपि विशिष्टां जानामि, अतस्त्रपां विहाय शोककारणं मां ब्रूहि । यतः - 'अज्ञातस्य दुःखस्य कापि चिकित्सा न जायते । ' इति श्वश्रूभाषितमाकर्ण्य जयश्रीरभाषिष्ट - अयि श्वश्रु! भवत्या अनुकम्पया विद्यते मे सकला सुखसाधनसामग्री, मातुः पितुर्वा वियोगो मनागपि मां नैव बाधते, दास्यादिवर्गोऽपि सहर्षं ममादेशं शिरसा वहत्येव, वसनाऽऽभरणादेरपि लिप्सा नैवास्ति। दुःखस्य कारणंत्वन्यदेवास्ति, यद् भवादृशगुरुजनाग्रे निगदितुमपि त्रपां बिभर्मि, अकथने च मनसि खेद एव नितरामुच्छलति, तदपि चिरादेव मामतितरां निपीडयति । अद्य भवती ममाऽनवरतमङ्गलचिकीरत्याग्रहेण पप्रच्छ, अतोऽहं चिरदुःखिनी तत्रभवतीं निगदामि यन्मे तादृशदुःखहेतुरन्यः कोऽपि नास्ति, किन्तु भर्त्तुरप्रसाद एव महादुःखमस्ति । मातः ! त्वामधिकं किं लपामि, अद्यावधि तदन्तिकं पौनःपुन्येन गतामपि मामेकदापि नाऽवीवदत्। अहो! लपनं तु दूरमास्ताम्, सस्नेहमपश्यदपि न, ज्ञानादज्ञानाद्वा तदीयमविनयमद्यावधि मया नाकारि, निरन्तरं सप्रेम तदनुकूलमेवाऽऽचरामि, तथापि वज्रादपि कठिनं तदीयं हृदयं मयि निरागस्यबलायामद्यावधि
163