________________
श्री कयवन्ना - चरित्रम् खलु प्रत्यहं विद्याविनोदेनैव कालं गमयन् मातापित्रोर्मानसमाह्लादयन् मनसा चानवरतं शुभं भावयन् वैराग्यवासनाप्रवाह एव निमज्जन्नासीत्। व्यावहारिक- लौकिककृत्ये तु स्तोकमपि तन्मनो नो लगति स्म। केवलं साहित्यचर्चातदभ्यासयोरेव सुखममन्यत। तदुक्तम्काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा ||१||
ततोऽनेन कुलजा रम्भोपमा सकलकलाकुशला नाम्ना जयश्रीर्महामहेन पित्रा परिणायिता, परमेतस्यां तारुण्यपूर्णायामपि मनोवृत्तिर्मनागपि तेन नाऽदायि, केवलमात्मीयवैराग्यवासनाया विघातिनीत्येव मेने । अत एव कदापि तां जयश्रियं प्रेमभरेण रहसि नाऽश्लिक्षन्नो लुलोके, न वा किमपि जजल्प। मन्मथराजधानी जयश्रीस्तु प्राणनाथमात्मसात्कर्त्तुकामाऽनवरतकटाक्षेक्षणसस्मितमधुरालापादिहावभावान् वितन्वानाऽऽसीत्, परमेतस्याः सकलोऽप्युपाय ऊषरभूमौ बीजवाप इव बभूव। ततः सा सर्वमेतन्निजश्वश्रूं निगदितुमैषीत्। यद्यपि लोके कियती श्वश्रूः परपुत्रीति मत्वा दिवानिशं वधूं दुःखीकरोति, दास्यादिकृत्यं दुष्करमपि तयैव कारयते, कलहायते च सदैव तया सह वध्वा तादृशी श्वश्रूः । जगति स्तोकैव तादृशी भाग्यशालिनी वधूरस्ति, या तादृशकलहजा पीडां नानुभवति, यदीदृशी भर्त्तुर्भ्राता भगिनी वा स्यात्तर्हि तादृश्यां तस्यां कियन्तं सद्भावं वधूः कुर्यादिति विज्ञाः स्वयमेव तर्कयेयुः । अस्याः श्वश्रूस्तु तादृशी नाऽसीत्, सा खलु सदैव निजवधूं मधुरयैव गिराभाषत, स्नेहमयेनैव चक्षुषा व्यलोकत, निजदुहितरमिव भृशं लालयति स्म, सत्यवसरे सुखदुःखयोर्वार्त्तामपि पृच्छति स्म, उत्तमं भोज्यं तस्यै दत्त्वैव स्वयं भुङ्क्ते स्म, कुपितापि सा तां कदापि भ्रुवौ क्रूरां दृशं वा नाऽदर्शयत्, तस्यां भर्तुरनुरागो मनागपि
162