________________
श्री कयवन्ना-चरित्रम् भासमाना अनङ्गमपि साङ्गं विदधाना मुनीनामपि मनांस्यधीराणि कुर्वत्यः सरागं गायन्ति स्म। यद्यपि श्रेष्ठिनः पुत्रः प्राक् कदापीदृशीं कामिनीजनलीलां नो प्रेक्षाञ्चक्रिवान्, तथापि संसर्गतस्तत्कालमेव मनसि चाञ्चल्यमध्यगच्छत्। ततस्ते तासां सङ्गीतस्थाने तं नीतवन्तः। तत्र तासां नाट्यं तारुण्यमद्भुतं लावण्यं मधुरं वीणानिनादं तथाऽऽलिङ्गयादीनां लयं च श्रुत्वा कयवन्नामनो वागुरायां मृग इव प्रतिबद्धमजायत। उक्तञ्च -
सुभाषितेन गीतेन, युवतीनां च लीलया । मनो न भिद्यते यस्य, स योगी हथवा पशुः ||२||
व्याख्या - मधुरगानेन स्त्रीणां शृङ्गारजैः कटाक्षादिचेष्टितैर्यस्य मनश्चित्तं न भिद्यते = नो चलति स पुमान् योगी = जितेन्द्रियः, अथवा पशुरिति। ___ अथ तत्र वसन्तोत्सवे कयवन्नाभिधस्य श्रृङ्गारिकत्वकरणे युवतीनां नृत्यं हावभावादिरेव पर्यासो जज्ञे। ततः प्रभृति वैराग्यभावना तु तन्मनो विहाय दूरमगमत्, केवलं शृङ्गार एव सदनं चक्रिवान्। किं बहुना, तदासक्तस्य तस्याऽशनपानादेरपि विस्मृतिरजायत। ततः स तैर्वयस्यैः सह वेश्यासदनमागत्य तदीयहावभावादिभिः कामकिङ्करोऽभवत्। यतोहि वेश्या विवेकयोर्ज्ञानाऽज्ञानयोरिव महदन्तरमस्ति, तर्हि तस्या वेश्मनि निवसतो जनस्य भक्ष्याऽभक्ष्यपेयाऽपेयाद्यपेक्षणं जात्वपि नैव सम्भवति। ततोऽसौ वारविलासिनी श्रेष्ठिपुत्रं वशंवदं विधाय मधुपानादिना प्रमत्तेन तेन सह स्वैरमनवरतं रममाणाऽऽसीत्। अहो! कुसङ्गदोषात्किं किं नाचरति?, यदाह -
भानन्दमृगदावागिः, शीलशाखिमदद्विपः । 1. चकृवान् ।
167