________________
श्री जगडूशाह-चरित्रम् च, सद्दानमपि विश्वम्भरोद्धारकरमभूत्, ओजोऽपि तस्य सर्वेषां सपत्नपक्षाणामखर्वगर्वदलने पटीयोऽभवत्।। ___ अथ गुरोः सारतरबहुतरवचनैस्तदीयमशेषं शोकमपहाय तद्बान्धवौ भूपतेर्मान्यतमौ राजपद्मनामानौ सद्धर्मविधाने धुरन्धरावभूताम्। पुनरिमौ प्रेकच्छारदपार्वणेन्दुकरनिकरावदातपरिस्फुरत्कीर्तिश्रीप्रचयेन निर्मलीकृताऽशेषमहीमण्डलौ श्रीषणसूरीश्वरीयचरणकमलयुगलाऽनवतरसेवनतत्परौ श्रीसङ्घमुख्यौ तौ श्रीमद्वीसलसत्कुलं चिरतरमशूशुभताम्। श्रीमतः श्रीषेणसूरेरतुलोपमोपदेशात्तावपि भ्रातरौ जगडूवदेव सद्धर्मकृत्येष्वमितलक्ष्मी व्ययीकुर्वाणौ निजजीवनं सुकीर्तिमयं सफलं चाकुर्वाताम्। ___ भो भो भव्याः! अमुष्मिञ्जगडूचरिते सम्यगाकर्णिते भव्यानां मनांसि नितरां प्रमोदभरमियति, कर्णौ च श्रवणादेतस्य पवित्री जायेते, दुःखत्रयं चैतच्छ्रवणादह्राय विलीयते, अन्तःकरणे कश्चिदवाच्य एव हर्षः परिस्फुरति सतां सुधियाम्। अत एतदालोच्य सवैरेव लौकिकपारलौकिकसुखातिशयलिप्सुजनैस्तद्वदेव स्वजीवनं सफलं करणीयं दिवानिशम्।
अथ प्रशस्तिः - सज्जैनागमपुण्डरीकनिकरप्रोल्लासनेकः क्षिती,
साक्षाद्धंस इहोदियाय जगदानन्दप्रकर्षपदः । सौधर्मोरुतपःसुगच्छविबुधानन्दप्रदे नन्दनाऽऽरामे,
कल्पतरुर्बभूव विजयी राजेन्द्रसूरीश्वरः ||१||
158