________________
श्री जगडूशाह-चरित्रम् जीमूतवाहनोऽप्यद्यैव किमशेषं जगत्तुच्छमवगत्य सुरलोकमगमत्?, किमन्यनूनमद्यैव राजा विक्रमार्कोऽपि सर्वमपहाय सुरगणयुवतिरिरंसया ययिवानमरनगरम्?, हा! हा! अमुष्मिन् जगदिवाकरे बलवता जगज्जिघत्सुना कालेन सहसापहृते क्षणादेव जगतीयं सकलाऽप्यपगतप्रमोदा शोकसागरे निमग्नाऽजनि? इति शशकिरे कवयः।
यः खलु निजारातिकुलकौशिकानां प्रमदभरं नितरामशीशमत्। येन जगडूदिवामणिना निजैरसङ्ख्यातैर्वसुभिः सकलदारिद्र्यतमःस्तोमो निरासि। अपि च तस्मिन् दिवं गते सति गुर्जरेशो नरेशस्तत्कालमेव शोकातिरेकाच्छिरसो मौलिमुत्तारयामास। महीयान् राजाऽर्जुनोऽपि तन्मृत्युमाकर्ण्य बाढमरोदीत्। एवं सिन्धुपाललोकपालोऽपि तदीयदेहान्तं निशम्य दिनद्वयमुपवासं चक्रिवाञ्छोकार्णवे निमग्नः सन्। किमधिकं कथयामि-अस्मिन्महीतले ये ये क्षितीश्वरास्तदीयां परलोकवार्ता शुश्रुवुस्ते सर्वेऽपि तदीयोदारगुणावली स्मारं स्मारं समुद्भूतप्रभूतप्रहर्षाः शोकसागरे निपेतुः।
तदानीमेको मोहमहीपतिरेव केवलं स्वचेतसि प्रमोदातिशयं दधार। प्रोल्लसन्नेष कलिरपि तत्र स्वर्याते प्रौढप्रतापी बभूव। धर्मस्तु क्षितेरमुष्या अत्यन्ताऽभाग्योदयात्तस्मिन् सोलनन्दने जगदिदं विमुच्य सुरयुवतिजनै रिरंसति सति नितरामातङ्कमेव बिभरामास। अहो! श्रीनिलयस्याऽस्य जगडूकस्याऽमुष्मिन्भूतले किं प्रेष्ठं श्रेष्ठ नाभूदपितु सर्वमेव। तथाहि-तदीया सती महती सुकीर्तिः शारदपूर्णचन्द्रप्रभाभासुरा वरीवृत्यते, मतिरपि तस्य श्रीमदार्हतभाषिताऽहिंसामयस्य मर्मग्राहिणी देदीप्यते, साहसमपि तदीयं समेषां सुमनसां महावीराणां च मनांसि समुल्लासयति विस्मापयति
157