________________
श्री जगडूशाह-चरित्रम्
यावदेव धनं धर्मार्थमहं व्येमि तावत्येव श्रीर्मामकीना, या च कोशागारेऽमिता सञ्चिता विद्यते सा तु परकीयैवास्ति । एकस्मिन् दिने सर्वमेतद्विसृज्य ममापि गन्तव्यमस्त्येव । इह लोके यः खलु परकीयाशेषदुःखभञ्जनो विक्रमादित्यनरपतिरभवत्सोऽपि सर्वमत्रैव हित्वा गतवानेव। भोजनृपकुमारपाल भूपालप्रमुखाः समेऽपि स्वायुषः पूर्णतायामितो जग्मिवांस एव, नैव केऽपि तस्थिवांसः। अतः संसारेऽत्र जन्म लात्वा ये जना जगन्ति जीवयन्ति, दीनानुद्धरन्ति, परेषां दुःखानि वारयन्ति, त एव धन्यजन्मानो जीवा मृता अपि जीवन्त एव गण्यन्ते । तत्रापि यावती लक्ष्मीः सुपात्रेभ्यो वितीर्यते सैवानन्तफलदा जायते। अतः समधिगताः श्रियः परोपकृत्यादिधर्मकार्येऽवश्यमेव व्ययितव्याः प्रतिदेहममितकमलाविलासकामुकैः सुपुरुषैरिति दिक् ।
ततः श्रीषेणसूरिवरपादारविन्दसेविराजहंसः सद्दानोद्भूतप्रभूतकीर्त्तिश्रिया विनिर्जितकल्पवृक्षः सुकृतिजनशिरोमणिः स सोलात्मजः स्वमनसि सदैव जिनाधिपतिप्रणीततत्त्वविचारमकरोत् । इतश्च तत्र भद्रेश्वरे भव्यैर्जनैरसङ्ख्यातैः सुमण्डितायां सभायां प्रातःकाले व्याख्याने श्रीषेणसूरीश्वरः सरीसृपाणां स्वरूपं सम्यग्वदति सति तत्रागतो मत्सरी कश्चन दुष्टयोगी, तेन मुनीन्द्रेण समं सकलसभ्येषु निषण्णेषु विलक्षणविचक्षणेषु मनसि चमत्कृतिं दधत्सु च नागमतोरुवादमकार्षीत् । तदानीं तत्प्रहितेन केनचिन्नागेन विषोल्बणेन निर्मलाशयस्य तस्य श्रीषेणसूरेः कराङ्गुलीपेशलपल्लवाग्रमदश्यत। तस्मिन् दुरात्मनि निर्गते स तदानीमेव तीव्रतरदुःखाकुलीकृतचेतसस्तान् भव्यजनानिति जगौ यदत्र कोष्ठागारे विषं निनाशयिषुरहं ध्यातुं प्रविशामि । यतोऽसौ दुर्धीर्योगी सम्मोहिनीं विद्यां सिसाधयिषुर्मामकं कपालं कामयते, भवद्विश्चात्र द्वारं नियन्त्र्याऽऽकृष्टखड्गैः स्थातव्यम् । मम हुङ्कारनादमाकर्ण्य गर्भधा
155
-