________________
श्री जगडूशाह-चरित्रम्
के जना न हृष्यन्ति ।'
अथैकदा कियन्तो धीवरजातीया मधूच्छिष्टमयैरिष्टकैर्भृतं पोतं समुद्रमार्गेण तत्र भद्रेश्वरपुरं निन्यिरे । एतानि क्व विक्रेतव्यानीदानीमिति विचारणा तेषामुदपद्यत, विचारयतां तेषां मनःपथे श्रेष्ठी जगडूः समायातः । तदनु मधूच्छिष्टमयान्येतानीष्टकानि तस्मै दत्त्वा तन्मूल्यमादेयमित्यवधार्य ते सर्वे तत्पार्श्वमाजग्मुस्तत्रागतास्ते निजकृत्यं तमाचचक्षिरे-श्रेष्ठिन् ! मधूच्छिष्टमयैरिष्टकैर्भूत एकः पोतोऽस्माभिरिहानीतस्तं श्रीमान् क्रीणात्विति तन्मुख्यो जगाद । इति समाकर्ण्य मूल्यं तस्मै दत्त्वा तानि मधूच्छिष्टमयानीष्टकान्यसौ चिक्राय। तदैव तदादिष्टाः पुरुषाः पोतान्तिकं गत्वा मधूच्छिष्टमयानीष्टकानि शकटे निधाय गृहमानीय बहिश्चत्वरे क्वचिदेकत्र कोणे सञ्चितवन्तः। एतच्चानुचितत्वाच्छ्रेष्ठिनः कुटुम्बादिवर्गो नाऽन्वमोदत, अतो मासत्रयं तथैव तानि तस्थुः ।
पश्चादेकस्मिन् दिने प्रज्ज्वलितायां सकट्यां केनचित्कौतुकादिष्टकमेकं तत्राऽक्षेपि । दहनयोगादुपरितनमधूच्छिष्टानां द्रावे तत्स्वर्णमयमचकात् । तदालोक्य तत्पत्नी यशोमती तदैव जगडूशाहमाहूय स्वर्णेष्टकं दर्शयित्वा सैक्थकमशेषं वृत्तमवोचत्। श्रेष्ठ्यपि तत्क्षणमेव कषपट्टिकायां तत्परीक्ष्य सकलानि तानि कनकेष्टकानि पञ्चशतानि गृहान्तर्न्यधात् ।
इत्थं भाग्योदयादनायासेनाऽधिगतायां प्रभृतायां श्रियां सत्यां श्रेष्ठी स्वगुरूपदेशतस्तानि सर्वाणि स्वर्णेष्टकानि दीना नाथपङ्गुरङ्कादीनामुपकृतये व्ययितवान् । यतः, विवेकजनशिरोमणिः सोलात्मज इदमवेदीत्-यदिदमनायासेन लब्धमपि धनं मम नास्ति, किन्त्वनेकाऽनाथादिजीवानामपि भागोऽस्मिन्नस्तीति हेतोरेतद्धनं परोपकृत्यै वितीर्यैवाहं कृती भवामि, अहं तु निमित्तमात्रमेवास्मि । 1. तण्डुलपचनसम्बन्धि ।
154