________________
श्री जगडूशाह-चरित्रम् महान्तमपि नैव जहाति, इति विचिन्त्य मनसि धैर्यमाधाय स सुकृती सकलसङ्घसमन्वितः सततसत्पात्रप्रदानकलया पवित्रीकृतधनप्रकरः सिद्धाचलरैवतकादितीर्थयात्रार्थमचालीत्। तत्र गत्वा सर्व सम्पाद्य श्रीमद्वीतरागपूजनादिनाऽऽत्मानं सफलं मन्यमानः स सोलनन्दनो जगत्रयीविस्तारियशाः सुन्दरं निजनगरमागत्य निजसङ्घलोकेषु गुरुतरभक्तिं प्रतन्वानो नीतिललितः शरदिन्दुसमुज्ज्वलं स्वकुलमपुनीततराम्। ____ अथैकदा वीसलदेवमहीपतीन्द्रप्रहितो महामन्त्री नागडो भद्रेश्वरे समांगतवान्। तमागतमालोक्य महीयसा प्रेम्णाऽऽसनाऽशनवचनादिना सोलभूः सच्चक्रे। तत्रावसरे मन्त्री जगाद-भो महेभ्याग्रेसर! मम राज्ञः सत्तुरङ्गमवती तरी समुद्रमध्ये मरुतातिवेगतः समन्ततो निमज्ज्य प्रावृषि भङ्गमाप। मृताश्चैकविंशतिरश्वाः, जीवंस्त्वेक एव तुरगो जलात्तीरमाप। तमश्वं जिघृक्षुरभून्नागडः सुधीः। तदा मन्त्रिवरमेवमाचख्यौ सोलभूः-मन्त्रीश्वर! मामकीनेऽमुष्मिन् हयोत्तमे जिघृक्षां जहीहि। परकीयवस्तुनि कृतिना त्रपिष्णुना च त्वया किमिति मनो निधीयते? तदनु नागडोऽवक्-कृतिन्! एष तुरगो मत्प्रभोरेवास्ति, तत्र मनागपि संशयं मा कृथाः, अन्यथा चेत्तत्स्थाने तुभ्यमहं हयवराणां विंशतिं ददानि। अथैवमस्त्विति स जगडूः प्रतिपद्य तस्य वाजिनः कण्ठदेशाच्चर्मणा कलितं निजनामविभूषितं पत्रमाशु जग्राह। तदालोक्य न्यक्कृताननं नागडं प्रसन्नमनाः स इत्यभिदधे-मन्त्रीश्वर! वरप्रदोऽसावब्धिरपि मामिकां श्रियं क्वचिन्नैव रक्षति किम्? पणीकृतान् विंशतिहयान् खल्वहं भवतो नैव कामये। आवयोः श्रेयस्करी भूयसी प्रीतिरेव विजृम्भताम्। अमुना सोलतनयवचनेन समुचितेन वीसलक्ष्माभुजः सरव्युत्तमः स्वमानसे भूयसी प्रीतिमाप, 'विवेकिनां गुणैरुदारैः 1. सरविद्यायां विशेषेणोत्तमः।
153