________________
श्री जगडूशाह-चरित्रम् । धनमन्नं च दत्तवान्।
इत्थममुत्राऽवनौ तीव्रतरं त्रैवार्षिकं दुर्भिक्षं प्रभूतरैराशिकलितः सकललोकपालनपरायणः सौलोऽसौ दलयामास। अर्थात्तस्मिन् सर्वेभ्योऽन्नं वितरति सति केऽपि लोकास्तं प्रबलमपि दुर्भिक्षं नाऽजीगणन्। नूनमेष तदानीमसीमदानकारः सुरपतिप्रेयसीमनोहारिशृङ्गारे दुर्भिक्षसन्निपाते त्रिकटुकौपम्यमभजत सोलभूर्जगडूः किल। सकलभुवनशासितुर्नलस्यापि येन बलिना कलिना पराभवोऽकारि, सोऽप्युच्चैस्तरः कलिस्तेन सोलात्मजेन जगतीतलं त्याजितः सुतरामितः। ____ अथाऽस्मिन्महीतले सर्वत्र भूयसीं वारिवृष्टिं विरचय्य ते पयोमुचः सपदि लोकानामखिलानामुरुतरदुस्तरदुर्भिक्षसमयोद्भूतं भयं शमयामासुः। तत्रावसरे नर्तितनीलकण्ठाः पयोधरा निजगर्जनच्छद्ममृदङ्गनादाः, सच्चातकव्रातमधुरालापव्याजेन जगडूयशांसि जगुस्तरामिति मन्ये। तदानीं प्रमुदोऽम्भोधरा अपि स्वगर्जनच्छलेन जगडूमित्याचचक्षिरे-भोः सुकृतिचूडामणे! त्वमेवास्मिन् प्रलयकालोपमे दुष्काले सकलमेतज्जगतीतलं चिन्तामणिरिव प्रचुरतरधान्यवितरणेन जीवयामासिथ, त्वादृशो वदान्यशिरोमणिस्त्वमेव सर्वेषां सुविदां दृष्टिपथमारोहसि। तदनु जाते च सुकाले वर्षत्सु च मेघपटलेषु समस्तेयं मही धान्यप्रवृद्धिसमृद्धिपरिपूर्णा जज्ञे, प्रतिदिवसं तस्य सोलात्मजस्य चारुतरयशस्ततिं गायन् सकलो लोको मोमुद्यते स्म।
अथान्यदा जगज्जीवोपकरिष्णौ श्रीपरमदेवसूरौ सद्गुरौ सुराङ्गनालोचनतर्पणाय स्वर्धाम गच्छति सति स जगडूमनसि शोशुच्यते स्म। अथाऽसौ करालकालः सर्वेषां दुरतिक्रम एवास्ति। असौ 1. रैराशि = धनसमूह।
152