________________
श्री जगडूशाह-चरित्रम् द्वात्रिंशत्सहस्रमूढकपरिमितानि धान्यानि ददिवान्, मालवदेशाधिप मदनवर्मणनृपाय (१८०००) धान्यमष्टादशसहस्रमूढकमदत्त, कन्धारदेशाधिपभूपालाय (१२०००) द्वादशसहस्रमूढकधान्यं वितीर्णवान्, काशीपुराधीश्वराय प्रतापसिंहराजाय सोलसूनुभत्रिंशत्सहस्रं(३२०००) धान्यमूढकानामददिष्ट, इन्द्रप्रस्थपुराधीश्वराय पुनरेकविंशतिसहस्राणि (२१०००) धान्यमूढकानां ददिवान्। इत्थमनेकेषां क्षितिपानां साहय्यं कुर्वता सोलसूनुना (११२) द्वादशोत्तरशतविशालदानशालाः कृताः, तासु प्रत्यहं पञ्चलक्षलोका भुञ्जाना आसन्। एवमार्पिपच्च निशायां स जगडूः स्वर्णदीनारयुतांल्लज्जापिण्डान् कोटिशस्तेभ्यः कुलीनेभ्यः प्राणिभ्यस्तस्मिन् दुःसमये। इत्थं तस्मिंस्त्रैवार्षिके दुष्काले स सौलिर्धान्यमूढकानां (९९९०००)नवनवतिसहस्राधिकनवलक्षम्, अष्टादशकोटीदीनारांश्चार्थिसाच्चक्रे। पुनरसौ साधर्मिकवात्सल्यादि देशान्तरेष्वपि निर्मलाशयः सोलसूर्निजपुरुषैरचीकरत्। तथैव नक्तं नक्तं प्रच्छन्नतया मध्यस्थापितोदारदीनाररम्यान्मोदकान् वीडयाऽनुक्तवचसे जात्यलोकाय कोटिशः प्रादात्। तेनाऽमुना सुकृतमतिनाऽतुलकृतिना सोलसूनुना तुल्यः कोऽप्यन्योऽमुष्मिन् क्षितितले नाऽभूत्, न वा भविष्यति, नैवास्तीति निश्चयं विदाकुर्वन्तु लोकाः। यतः - मीयतां कथमभीप्सितमेषां, दीयतां कथमयाचितमेव । तं धिगस्तु कलयपि वाञ्छामर्थिवागवसरं सहते यः ॥ __व्याख्या - एषामर्थिनामभीप्सितं मनोगतं कथं मीयताम् जानीयात्, एवमयाचितमीप्सितार्थाऽकथने कथं वा दीयतां दीयेत, तं दातारमपि धिगस्तु, योऽर्थिनां वागवसरं = याचनं दातुमना अपि सहते। -- --
अतस्तेनोत्तमः स याचनामनपेक्षमाण एव लोकेभ्यः प्रभूतं
151