________________
श्री जगडूशाह-चरित्रम् जगडूनामा निरमायि। नो चेद् दुर्भिक्षव्यसननिपीडितमेतन्महीतलं कस्मात् स्थेमानं व्रजेत्। अर्थादमुष्मिन् काले स एक एवोदारचेताः किलेदं जगज्जाग्रत्यपि बलवति दुष्काले सुस्थिरीचक्राणः। इह संसारे श्रीसोलतनयत्रितयी छद्मना त्रिदशालयादवतीर्णेषु कल्पतरुचिन्तामणिकामगवीषु तद्विरहभाजां तेषां निलिम्पानामद्यापि स्वास्थ्यानुभूतिर्नास्तीति केचन मेनिरे।' ___ अत्रान्तरे काचिद्विदग्धवनिता स्वपतिमाख्याति-'स्वामिन्! कामपि रम्यां कलां नो जानासि। राज्ञः सेवामपि यदि नो वेत्सि, कमपि व्यवसायं वा यदि न जानासि, चेत्कृष्यादिकमपि न वेत्सि, तर्हि जडमते! विश्वम्भराभारोद्धारधुरीणमद्भुतधियं सोलात्मजमपि कथं न जानासि? सम्प्रति येऽमुं न विदन्ति, तेषां मन्दधियां जनिर्मुधैव जातेति ध्रुवं विद्धि। दुष्कालकरालविलेशयेन दन्दश्यमानमेतदशेषमहीतलं प्रचुरान्नसुधया नितरामुज्जीवयामासिवानसौ जगडूक एक एवेति मन्तव्यम्।"
तैः कविप्रवरेरित्थं वर्ण्यमानमात्मनो यशः शृण्वन् स सोलात्मजस्त्रपया तस्यां सभायां वदनारविन्दं नम्रीचक्रिवान्। (चकृवान्) अथानन्तरं तान् कविवरानमेयवैभवप्रदानेन मानेन वचनेन च प्रीणयित्वा, गुर्जराधीशेन सत्कृतो नै नगरमायातः। तत्र महति दुष्काले देशे विदेशे च सर्वत्र जगतः परिपालनाय जगडूशाहस्यैव कीर्तिं सर्वे लोका जगुः। यस्य यस्य राज्ञो धान्यागारं रिक्ततामुपगतं ते ते राजानः सकलविबुधकविवरगणैरनारतं तोष्ट्रय्यमानं सोलात्मजमेव धान्यमयाचन्त।
सिन्धुदेशाधीशाय हम्मीराख्ययवनभूपाय (१२०००) द्वादश सहस्रं धान्यानां मूढकमददत, मेवाड़देशाधिपतये (३२०००) 1. बिले शेते = विलेशयः सर्पः।
150
150