________________
श्री जगडूशाह-चरित्रम्
"पूर्वगङ्गातः पापमेवैकं लोकानामपयाति, त्वत्तः पश्चिमगङ्गाऽऽभादशेषं दारिद्र्यं पातकं च प्रणश्यति। धीमतां सर्वेषामिति भागीरथ्या अप्यधिकमहिमास्ति ते। सोलकुलैकमण्डन! संसारेऽस्मिन् वारिदानां वृष्टिमापन्ना अपि लोकाः पौनःपुन्येन तां कामयन्ते। एवं सूर्यचन्द्रयोरालोकमपि पुनःपुनरुशन्ति, तथा रत्नाकरस्यापि सेवां वारं वारं नरा ईहन्ते, एवं रोहणभूभृतामीप्सितानि फलान्यपि भूयो भूयः किलेच्छन्ति, परन्तु दारिद्र्यविद्रावणं तावकीनं द्रविणमासाद्य केप्यर्थिनः साम्प्रतममुष्मिअगतीतले पुनः स्पृहां नैव कुर्वन्ति।"
"यदमुष्मिंल्लोके मान्धातृ-पुरूरवः-शिबि-कार्तवीर्य-भरतमनु-हरिश्चन्द्र-कर्ण-जनमेजय-वसुप्रमुखा अपारमहिमानः क्षितीश्वरा अपि यन्नो प्रपेदिरे, तदशेषभूमीभुजां पालनादसौ सोलनन्दनः पितामहपदमयाञ्चक्रे। युगत्रयादप्यधिकाऽऽचारवानत्र कलौ जाते च महादुर्भिक्षे सर्वेषां राज्ञां सह लोकैः परिपालनादध्यजायत स जगडूमहीयान्।"
"विश्वजनीनस्य प्रावृषेण्यधाराधरस्येवाऽनवरतं सर्वेभ्यो निरपेक्षं ददानस्य महीयसो जगडूकस्य कलितौन्नत्ये चिरतरस्थेमवत्या लक्ष्म्या सनाथीकृते स्वच्छतमे यशःप्रासादे नूनमेष दिवाकरः काञ्चनकलशायते, कल्पवृक्षो हि सुवर्णमयदण्डायते, स्वर्गङ्गीयसलिलवदमलध्वजपटायते च स्फुरदम्बुदानां पटली, नूनममुं सोलनन्दनं व्याजीकृत्य धरायामस्यां पुनरवतीर्णो हि धन्वन्तरिलॊकानामार्त्तिहेतुमेनं दुर्भिक्षरोगं निहन्तुं भूयांसि धान्यान्येव महौषधानि समजीजहत्।
"विधे! तवापि साधीयसी बुद्धिरुदपद्यत, येन सृष्टिकरणपटीयसा त्वया शश्वत्कलङ्कविकले श्रीमालकुले नररत्नमेष
149