________________
श्री जगडूशाह-चरित्रम् केवलमेष जगडूः पालक एव सर्वानत्रायत, तस्मादेष यथार्थ - लोकपालोऽस्तीति मन्तव्यं सर्वैः । '
"हंहो ! अस्मिन् कलिकाले विष्णोर्यस्तातयिकोऽवतारो वराहात्मकः, सोऽपि निर्बलतामापत् । शेषनागस्यापि शिरसां सहस्रमतिनम्रतां बिभरामास । योऽपि विष्णोर्द्वितीयोऽवतारः कमठः, सोऽपि महाकर्दमे क्रीडितुं क्वचिदगात् । इत्थमशरणायितं जगदिदं महादुर्भिक्षकालपरिपीडितं केवलमेको जगडूशाह एव रक्षितुं शक्तिमानभूत्।"
"श्रीमन् ! श्रीमालकुलकमलदिवाकर ! त्वयि भूम्या भारं धृतवति य एष पन्नगपतिः स खलु संप्रत्यनुभवतुतरां निजवधूगणपरीरम्भ्यसमारम्भसंभूतप्रभूतानन्दमेव । येऽप्यष्टौ दिग्गजा विलसन्ति, तेऽपीदानीमाशान्ते स्वर्गङ्गाऽमलसलिलान्तः करिणी - यूथेन सममनारतं सानन्दं केलिमेव वितन्वताम् ।"
"अखर्वगर्वोद्धतस्य पीठदेवनृपस्य कामिनीजनलोचनयुगलकज्जलश्रीचयमजीहरत् । हम्मीरादिप्रतिवीरविक्रमकथासर्वस्वाऽपलापोल्बणो वरीवृतीति । यश्चाधुना माद्यतां मुद्गलानां स्थानस्य प्रचण्डतेजसश्च निराकरणे तीक्ष्णांशुर्निगद्यते, सोऽयं गुर्जरराज्यवर्धनकारी विजयी सोलकुलगगनशशधारी चिरं विजयताम् । "
अखिलजगतीतलस्य यद्दौःस्थ्यमपहर्तुं कल्पद्रुमचिन्तामणिसुरधेनुप्रभृतयः केऽपि महान्तो न शेकुस्तल्लीलयैव सोलनन्दनो विधातुमशकत्। नूनमेतस्मिन् वामेतरे जगडूकरकमले जगदुद्दिधीषुर्विधाता जडतरेभ्यस्तेभ्यः सुरतरुकामकुम्भचिन्तामणिभ्यः किलाऽशेषवाञ्छितप्रदत्वमादाय विदधौ । यदीयाऽखण्डप्रचण्डप्रतापतपनेन विकस्वरेषु गाङ्गेषु पद्मेषु सद्भावभाजः सप्तर्षयः प्रत्यहं सायन्तनं समयमपि नो विदन्ति । "
148