________________
श्री जगडूशाह-चरित्रम् श्रीमालवंशसद्रत्नकल्पजगडूशाहस्तदैव राज्ञेऽष्टसहस्रमूढकपरिमितं धान्यं व्यतारीत्। तत्रावसरे तस्यां सभायां सन्तः कियन्तः सोमेश्वरादयः कविवरा ईदृशीमुदारतां वीक्षमाणा जगडूशाहमेवमस्ताविषुः - ___ "श्रीश्रीमालमहोज्ज्वलविशालकुलोदयाचलालङ्कारदिवाकरो महाकरालकलिकालकालीयप्रमदविजित्वरदामोदरः, त्रिलोकीप्रसृत्वरहिमकरतुषारसोदरकीर्तिनिकरः, सद्धर्मलतादृढत्वक्सारोऽखिललोकपरिपालकोऽसौ श्रीमालान्वयकोटीरो जगडूश्चिरं विजयताम्।" पाताले क्षिपता बलिं मुरजिता किं साधु चक्रेऽमुना, रुद्रेणापि रतेः पतिं च दहता का कीर्तिस्त्रार्जिता । दुर्भिक्षं क्षितिमण्डलक्षयकरं भिन्दन् भृशं लीलया, स्तुत्यः साम्प्रतमेक एव जगडूरुद्दामदानोधतः ||१||
व्याख्या - पातालेऽधोलोके बलिं तदाख्यमसुरं क्षिपताऽमुना मुरजिता-श्रीकृष्णचन्द्रेण किं साधु-समुचितं चक्रेऽकारि, च पुना रुद्रेणापि महेश्वरेणापि रतेः पति-मदनं दहता-भस्मीकुर्वताऽत्र संसारे का कीर्तिरर्जिताऽधिगता, कापि नेत्यर्थः। क्षितिमण्डलक्षयकरं-सकलभूमण्डलप्रलयकरं दुर्भिक्षममुं लीलयाऽनायासेन भिन्दन्-दूरीकुर्वन् उद्दामदानोद्यतः-निरपेक्षवारिदवत्सकलजनान्नदानकरणतत्परोऽसौ जगडूरेक एव साम्प्रतमधुना स्तुत्यः स्तोतुमर्हः, ईदृक्कीर्तिकारी कोऽप्यन्यो नाऽभूदिति यावत्।"
'इन्द्रवरुणयमकुबेरा एकैकदिशायाः पालकत्वादिक्पालत्वं बिभ्रति, अयं जगडूशाहस्तु सर्वासामाशानाम्परिपालनानाम्नोऽर्थतश्चान्वर्थमेव लोकपालत्वं बिभर्ति। वस्तुतस्तु तेषु लोकपालेषु सत्स्वप्यधुना दुष्कालक्लेशितं भूतलमदः कोऽप्यवितुमलं नाऽभूत्,
147