________________
श्री जगडूशाह-चरित्रम् लोकजीवयितारं माननीयं लक्ष्मीमन्तं सम्मन्तुं विशिष्टं किमपि स्वस्मिन्न पश्यामि। किमधिकं वच्मि, नूनं त्वमेवाधुना सकलं भारतं दुर्भिक्षपरिपीडनादुन्मोच्य सर्वान् पालयसि, अतस्ते धन्यवाद वितरामि। यत्कोऽपि कत्तुं नार्हति तत्त्वमधुना करोषि। सफला तावकीयाऽपरिमिता कमला, जन्मापि तावकं सफलमजनि।' ___ इत्थं नृपोक्तिमाकर्ण्य जगडूशाहो न्यगदत्-"राजन्! मम तु बुभुक्षितानाथादिजनेभ्यो भोजनदानमेव मुख्य कार्यमस्ति। यस्मादस्मत्सम्प्रदाये धर्मस्य मूलं दयैव न्यगादि। सा दया वाङ्मात्रेण भवितुं नार्हति, किन्त्ववसरे क्रिययैव। अतोऽहमवसरेऽस्मिन् परमार्थानुष्ठानेन स्वधर्ममेव पालयामि, नो चेदनया श्रिया जीवितेन च मे किं प्रयोजनम्, अजागलस्तनमिव वृथैवेति परमार्थः।" पुनरवोचत्क्षितिपतिः-'जगडूशाह! नूनमस्मिंस्त्रैहायनिके घोरतरे दुर्भिक्षे प्रवर्त्तमानेऽशेषभारतीयप्राणिपरिपालनार्थमेव त्वमजनिष्ठाः खलु। अत्र धान्यानामालयाः ससैव विद्यन्ते, तव शतानि सन्तीति श्रुत्वा सम्प्रति कणकाङ्क्षिणा मया भवानाहूतः। इति राज्ञो वचः श्रुत्वा किञ्चिद् विहस्य सोलसूनुस्तमुचिवान्-राजन्! मम धान्यानि नो वर्तन्ते, मम वचसि संशयं बिभर्षि चेत्तर्हि तेषु धान्यकोष्ठेषु इष्टकान्तःस्थसत्ताम्रपत्राक्षराणि विलोकय? इति निगद्य कणकोष्ठगा इष्टकास्तत्राऽऽनाय्य हेलयैव भञ्जयामास। तदैव ताम्रपत्रस्थितवर्णानवाचयद्राजा-अहो! धर्ममूर्तिः परोपकारिणामग्रेसरोऽसौ सोलभूः समस्तान्यपि धान्यानि रङ्कार्थमचीक्लृपदितीत्थं त्वया यानि सङ्ग्रहीतान्यपरिमितानि धान्यानि तानि सकलानि दीनहीनजनार्थान्येव, सत्यपेक्षणे कथमहं तानि गृह्णीयाम्। वर्वति च धान्यानामपेक्षा ममापि बाढं परं तावकमेतदशेषं धर्मार्थमेवास्ति, तदादानं राज्ञो नैव घटते।" अथैवं गुर्जराधिराज-वीसलदेवभणितमाकर्ण्य शौर्यौदार्यगाम्भीर्यपरोपकारकर्तृत्वादिगुण-विशिष्ट
146