________________
श्री जगडूशाह - चरित्रम्
दुःखितान् कर्त्तुमारभत । बालवृद्धाद्या समस्ता अपि लोकाः क्षुधा व्याकुलतां नीता अतिशयमक्लिश्यन्त । तेषामसहनीयां बाधामालोक्य सर्वेभ्योऽन्नानि दातुमारभे सोलात्मजः । देशे विदेशे चाऽऽत्मानुचरद्वारा तादृशदुर्भिक्षपरिपीडितमनुष्येभ्योऽशेषेभ्यो दातुं लग्नः। एतस्य महोपकर्त्तुरन्नदानेनाऽसङ्ख्याताश्च लोका अकालमृत्युकरान्मुमुचुः। अमुष्मिन् भारते सर्वत्र प्रसृतो दुर्भिक्षकालः सर्वेषां दुष्पारो जज्ञे । पितरौ पुत्रमपि हातुं लग्नौ, कोऽपि जगदेतदवितुं नालमभवत्। केवलमन्यदुःखाऽसहिष्णुर्जगडूशाह एव प्रतिग्रामं स्थापितधान्यराशितः सर्वांल्लोकानन्नप्रदानेन जीवयामास । इत्थममुना वर्षद्वयं त्राता अपि लोकाः स्वाल्पामपि वृष्टिं नापश्यन् । तदानीमणहिल्लवाडपुराधीशो वीसलदेवो नाम राजा भुवं शासदासीत् । तस्यापि सर्वाणि धान्यागाराणि रिक्तान्यभूवन् । अत एवाऽसौ गुर्जराधीशः स्वप्रधानं नागडनामानं भद्रेश्वरपुरे सम्प्रेष्य सादरं सोलात्मजं स्वपार्श्वमजूहवत् । तदादेशं माल्यमिव सहर्षं शिरस्यभिनीय कियद्भिर्व्यापारिगणैः साकमागत्य स सोलनन्दनस्तदुचितरत्नोपहारं पुरो निधाय तं गुजरेश्वरं प्रणनाम । तत्रावसरे कश्चिच्चारणः क्षितिपतेराशयमवगत्य प्रसङ्गवशादित्थमेनं नुनाव
"भोः सोलवंशावतंस ! जगति त्वमिव कोऽप्यन्यः परोपकारी सुकृतनिचयकारी नैव दरीदृश्यते । यस्मादेतस्मिन्नसहनीये दुष्काले क्षुधाभिभूतानशेषाञ्जनान् प्रतिग्राममेकस्त्वमेव भोजनं प्रदाय जीवयसि । "
इति चारणीयप्रशंसया नृपादयः सकला अपि सभ्या नितरां प्रसेदुस्तदनु राजा जगडूशाहमित्यभिदधौ - 'महेभ्यवर्य ! त्वमस्मिंचिरकालिके महादुर्भिक्षेऽनाथेभ्योऽन्नादि दददशेषं जगद्रक्षसि, इयं ते देशसेवा श्लाघ्यतमाऽमूल्या वर्त्तते, तत्र कोऽपि संशयो नास्ति। अमुया परमार्थसेवयाऽहं त्वदुपरि नितरां प्रसीदामि । ईदृशं सकल
145