________________
श्री जगडूशाह-चरित्रम् स्थापितवान्। तत्रानपेयादिव्यवस्थामपि साधीयसीमकृत। कियतां निरुद्यमानां लोकानां व्यापत्तुं द्रव्यसाहाय्यं कृत्वा तान् नानाविधव्यापारेऽयोजयत। शिशूनां विद्याध्ययनाय बृहबृहदनेक विद्यालयमस्थापयत। एवमनेकविधव्यापारादिकलासम्पादनाय 'व्यापारविद्यालयं' प्रकाशीचक्रे, तथाऽनाथविधवाप्रभृतीनां कियतीनां गुप्तदानादिना तदीयदुःखमपहृत्य तदाशिषमगृह्वात्। इत्थं सदुपार्जितात्मलक्ष्मीसदुपयोगमकार्षीजगडूशाहः। __ अथैकदा सोलात्मजं रहस्याकार्य परमदेवसूरिरिति व्याजहे'महानुभाव! विक्रमीये (१३१२) करभूगुणेन्दुहायनेऽतीते सर्वत्र देशेषु वर्षत्रयीं (१३१३-१४-१५ वर्षपर्यन्तं) वृष्टेरपतनान्महादुष्कालो भविष्यति। अत एव प्रतिदेशं निजविश्वस्तजनान् प्रेष्य सर्वजातीयधान्यानि प्रचुराणि सगृहाण। सङ्ग्रहीतैश्चैतैर्धान्यैर्जाते च तत्र दुष्काले जगति लोकानां जीवितदानं दत्त्वा शाश्वतमतिनिर्मलं सुयशः सञ्चिनु।"
गुरूपदिष्टमेतदसौ सहर्षमुररीकृत्यात्मीयजनाननेकान् द्रव्यं दत्त्वा सर्वदिक्षु धान्यानि क्रेतुं प्रेषीत्। यत्र यथा मिलेत्तत्र तथैव महार्घममहाघ वा सर्व तत् क्रेतव्यमेवेत्यादिष्टास्ते पुरुषाः सर्वत्र धान्यानि क्रेतुमारेभिरे। तेषु क्रीणत्सु सर्वत्र धान्यं महाघमजायत। तेषु महार्घतां यातेषु धान्यसङ्ग्राहका व्यापारिणः सर्वेऽपि स्वयोग्यं तद्रक्षित्वाऽधिकं धान्यं व्यक्रीणन्। महार्घाण्यापि तानि धान्यानि क्रीत्वा तत्तद्ग्रामे कोष्ठागारे न्यस्तवन्तस्तानि धान्यानि, इत्थं सर्वदेशीयधान्यराशिं समचिनोदसौ जगडूशाहः। __वैक्रमे १३१३ हायने जगति सर्वत्र मेघानां दर्शनं दुर्लभ जज्ञे, सर्वत्र हाहाकारः प्रववृते। सकलमेव जगदसौ दुर्भिक्षकालो जगज्जिघत्सुः प्रलयकाल इव करालतां दर्शयल्लोकानशेषान्
144