________________
श्री जगडूशाह-चरित्रम्
खल्वजागलस्तनमिव कृपणजनकरगतापि मुधैव । कृपणानां सदने स्थिता प्रचुरापि लक्ष्मीः क्षारसमुद्रेऽगाधजलराशिरिव वृथैव । यतः सा लक्ष्मीस्तेन नो कस्मैचिद् दीयते, न वा स्वेनाप्युपभुज्यते, अतः कृपणानां लक्ष्म्यः खलु नाशं व्रजन्ति, अथवा तस्मिन्मृते कश्चिदन्य एव तां लक्ष्मीमुपभुङ्क्ते । अत एव परानुपकुर्वन् यो जीवति स एव जीवति, अनीदृशस्तु जीवन्नपि मृतकल्प एवास्ति ।"
"ये जना लक्ष्मीमासाद्य सामाजिकानां, देशस्य, जिनशासनस्य चोपकरणं दूरमास्ताम्, किन्तु स्वज्ञातीनपि मनागपि नोपकुर्वन्ति, केवलं स्वार्थमेव साधयन्तस्ते विविधानि पापकर्माण्येव बध्नन्ति, पापीयांसस्ते जनास्ता लक्ष्मीरत्रैव विहाय मृत्वाऽवश्यं दुर्गतिमेव लभन्ते । ये धनवन्तः स्वयं गजाश्वरथादिसमारूढाः सानन्दं सायं प्रातः पर्यटन्ति निजधर्मिणो निर्धनान् विधवाश्च आलोकमालोकं स्वचेतसि मनागपि दयां न धरन्ति, ते शठाः स्वप्नेऽपि जैनधर्ममधिगन्तुं नार्हन्ति । एतादृशानां पुंसां पाषाणदारुणं हृदयं वज्रादप्यधिकं कठोरमित्यवगन्तव्यम्।"
किञ्चास्माकं सप्तक्षेत्रीयाधारता ज्ञातीयजनतोपकारोपर्येव सन्तिष्ठते । यथा कृतेष्वप्यनेकमन्दिरेषु तदर्चकाऽभावे तद्रक्षणं नो सम्भवति, तथा जगति ज्ञातीन् विना स्वधर्मस्य रक्षणं कदापि नैव सम्भवतीति सर्वतः स्वज्ञातय एव रक्षणीया धनेन । तथा कर्त्तार एव जनाः क्षेत्रान्तरमपि पोषयितुमर्हन्ति, नेतरे जात्वपि ।
इति तद्गुरोरुपदेशमाहात्म्यपरिवृद्धये जगडूशाहः परमार्हत्कुमारपाल इव निजवर्षग्रन्थिदिवसे कोटिसङ्ख्याकं द्रव्यं स्वज्ञातिबन्धुप्रमुखानामुपकृतये दातुं प्रारब्धवान्। कियतां मध्यवर्गीयस्वधर्मिणां विधर्मिणां च गुप्तदानप्रदानेन साहाय्यमकरोत् । कियतामनाथहीनदीनपङ्ग्वादीनां प्रत्यहं सुखेन भोजनार्थमन्नक्षेत्रं
143