SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् खलु भद्रेश्वरपुरं तत्समीपवर्तिग्रामनगरादिकं लुण्टयन्ती लोकानुद्वेजयामास। तदानीं केऽपि शौर्य दर्शयितुं नैव प्राभवन्। परमेनां वात्तां श्रुत्वैव परोत्कर्षाऽसहिष्णू रणवीरो जगडूशाहस्तत्कालमेव वीसलदेवभूपालस्य बलानि लात्वा तस्यां घाट्यामागत्य लीलयैवाऽऽत्मशौर्य प्रकटयंस्तां मौगलीयसेनां विजित्य सर्वत्र देशे शान्तिं व्यतनोत्। यतो 'विजिगीषूणां महीयसां प्रकृतिरेवेदृशी निसर्गादभिजायते, यया विपक्षोन्नतिं मनागपि नैव सहन्ते।' तदाह - किमपेक्ष्य फलं पयोधरान, ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसां, सहते नाऽब्यसमुन्नति यया||१|| व्याख्या - ध्वनतो गर्जतः पयोधरान् मृगाधिषः किमपि किञ्चिदपि फलं प्रयोजनमपेक्ष्य न प्रार्थयते नो याचते। किन्तु खल्विति निश्चये महीयसामतिमहतां पुंसां सासैव प्रकृतिः स्वभावो भवति, यया प्रकृत्याऽन्येषां समुन्नतिं नैव सहते=न सोढुमर्हति। एकदा व्याख्यानं ददत्परमदेवसूरि नमाहात्म्यं वर्णयितुमारभत। तथाहि-दानभेदा अनेके सन्ति, तत्राऽन्नदानवस्त्रदानयोः फलानि यथोक्तानि वर्णयित्वा पुनरभयदानसुपात्रदानोचितदानाऽनुकम्पादानकीर्तिदानेषु प्रत्येकोपरि व्याख्यातुमारेभे-भो लोकाः! अमुष्मिंल्लोकेऽभयदानसुपात्रदानेऽतिश्रेयसी मुक्तेर्निदान-भूते स्तः। उचितदानानुकम्पादानयोरपि न्यूनं फलं नावगच्छत। स्वज्ञातिभ्यः सम्बन्धिजनेभ्यस्तदितरेभ्यश्च योग्यं यद्दीयते तदुचितदानमवगन्तव्यम्। निःस्वार्थधिया जात्यादिभेदमगणयन् महिष्ठलघिष्ठदीनहीनदुःखिजनेभ्यो दयाधिया यद् दीयते, तदनुकम्पादानम्। "यो हि जगज्जीवयति तस्यैव जीवनं गण्यते लोके। इह लोके भूयांसः श्रीमन्तो विलसन्ति, परन्तु यस्य लक्ष्म्या लोका उपक्रियन्ते, सैव लक्ष्मीः सफला। या लक्ष्मीर्लोकानोपकुरुते, सा 142
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy