________________
श्री जगडूशाह-चरित्रम् सिन्धुदेशीयानशेषानपि मदोन्मत्तान् सामन्त-माण्डलिकप्रमुखान् विजित्य करदानकरोत्। तेभ्यो धनान्यादाय कोशसैन्ये प्रवर्ध्य सर्वत्र देशे शान्तिं व्यापारोन्नति चाततान। राज्यव्यवस्थां साधीयसी विधाय युवराजो वीरधवलः स्वर्गवासमीयिवान्। अत एव महाराजभीमदेवमहामण्डलेश्वरलवणप्रसादयोः स्वर्गवासानन्तरं वीरधवलात्मजो वीसलदेव एव गुर्जराधिराजो बभूवान्। ततोऽसावकार्षीच्च-गुर्जरीय-सौराष्ट्रीय-कच्छदेशीय-सिन्धुदेशीयाऽशेषान् भूपालान् आत्मसेवकान्।'
एतवृत्तान्तमाकर्ण्य प्रभूतप्रमदो जगडूशाहस्तस्मा इतिहासविज्ञाय पुंसे सम्मानपुरस्सरं पुरस्कारमदात्। तस्मिन्नवसरे कश्चिदेको विपश्चित्तं जगडूशाहमित्थं प्रशशंस - लोके श्रेष्ठिन् सार्वभौमादिहोच्चैः, सर्वामृद्धिं प्राप्य लोकोत्तरां सः । एवैकस्मिन् भोगलीलाविलासे, प्रख्यातः श्रीशालिभद्रो बभूवान् ||१|| सीमातीतेश्वर्यभोगप्रदानेः, सर्वाऽऽशासु ख्यातिमत्त्वं जगब्ध । तस्मादच्छां कीर्तिमस्याष्यनल्पा, लश भूरि प्रापयामासिथ त्वम् ||२||
इत्थं प्रशंसान्वितं काव्यमाकर्ण्य सुप्रसीदन्नसौ सोलसूनुस्तस्मै कवये लक्षमुद्रामदात्, नानास्वर्णाभरणैर्महावस्त्रादिभिश्च तोषयामास। अथ सोलसूनुजगडूमध्यमभ्रातृजाया राजल्लदेवी क्रमेण विक्रमसिंहधन्धाख्यनामानौ तनयावजीजनत्। तौ तेजस्विनी महामतिको शुभानन्दकारिणौ मेरुशृङ्ग पुष्पदन्ताविव स्वकुलं भूषयामासतुः। तदनु गोत्रानन्दकरी गुणोज्ज्वलां हांसीनाम्नी तनयां प्रसूय सा राजल्लदेवी नितरां रेजे। ____ अथैकदा समये येनाऽऽचाम्लवर्धमानतपस्यामविघ्नं पूर्णीकृत्य करविन्दुगुणेन्दुवैक्रमेऽब्दे (१३२०) मार्गशीर्षशुक्लपञ्चमीघने
136