________________
__श्री जगडूशाह-चरित्रम् धवलो धवलक्क (धोलका) पुरमागत्य राज्यमतिदृढयितुममण्डत्। तत्रान्तरे भोलाभीमदेवस्य मन्त्रिणोऽश्वराजस्यात्मजौ बृहस्पतिरिव सर्वकलापरायणौ विपुलबलवीर्यो सर्वराजनीतिज्ञौ वस्तुपालतेजपालौ माण्डलपुरेऽतिष्ठताम्।' ___'पुरा कल्याणीनगराधिपतिर्भूवडसोलङ्की गुर्जरं जित्वा स्वपुत्र्यै मीनलदेव्यै कञ्चक्यर्थ व्यतरत्। ततस्तहिनादेतद्देशीयमायं सर्वमेषा राजकुमार्येव लातुं लग्ना। आयुषः क्षये सत्येषा मृत्वा व्यन्तरदेवीत्वेनोत्पेदे। गुर्जरोपरि मोहातिशयादेषा तदधिष्ठातृदेवी सर्वेषां भाग्यलक्ष्मीर्लोकरशेषैरमन्यत। अथैकदा सा देवी युवराजवीरधवलस्य स्वप्ने दर्शनं दत्त्वा गुर्जरीयसमुन्नतिं विधातुमादिश्य वस्तुपालतेजपालयोर्मन्त्रिसेनापतिपदयोर्दातुमसूचयत। इतश्च सैव देवी लवणप्रसादमहामण्डलेश्वरमपि स्वप्ने प्रत्यक्षीभूय व्याहृतवतीत्थम्-'महामण्डलेश! महान्मे शोको वर्वति, यदहमधुना गुर्जराधिपतिषु मृतेष्वनाथा जाता, अतस्त्वं मामव। भविष्यति च भवतां विजयः। किञ्च वस्तुपालतेजपालयोरेकं मन्त्रिणं द्वितीयं चमूपतिं च कुरुष्व, इतीरयित्वा तत्कण्ठे पुष्पमयीं विजयमालां परिधापितवती।' तदनु युवराजोऽपि तदैव महामण्डलेश्वरमापृच्छय सोमेश्वरपुरोहितेन वस्तुपालतेजपालौ माण्डलपुरादानाय्य वस्तुपालाय मन्त्रिपदं तेजपालाय सेनापतिपदं चादात्।
अथ वस्तुपालतेजपालयोः साहाय्येन वीरधवलो युवराजः शनैः शनै राज्यमूलं दृढीकर्तुमारभत। तावुभावपि भ्रातरौ प्रवर्त्तमानयुद्धेऽग्रेसरीभूतौ राज्यव्यवस्थायामपि पटीयांसौ बभूवतुः, अत एव युवराजः सुखेनारातीन् विजेतुमानुकूल्यमियाय। अयं युवराजः कियन्तं समयं समरे स्थित्वा गुर्जर-सौराष्ट्र-कच्छ
135