________________
श्री जगडूशाह-चरित्रम् सामन्तश्चासीत्। कुमारपालभूपतिर्धवलकाय धोलकां तत्प्रान्तीयं प्रदेशं च व्यतरत्। अत एवैनं लोका माण्डलिकं गणयन्ति स्म। तथैव वाघेलास्थलमप्येतद्धस्तगतमासीदत एतद्वंशीयाः सर्वेऽपि 'वाघेला' उच्यन्ते। अर्णोराजस्य लवणप्रसाद (लुणोजी) प्रसिद्धाभिधानः पुत्रोऽभवत्। इमौ पितापुत्रावणहिल्लवाडायां (पाटणनगरे) विश्वस्तौ सामान्तावास्ताम्, एतयोरेव साहाय्यतो भोलाभीमदेवः पुनरपि गुर्जराधिपत्यमासुमहत्खलु। एष समयो गुर्जरदेशाय नूनमन्धान्धमयतामापत्। यद्यपि पुनरसौ भीमदेवो गुर्जरीयाधिपत्यं लेभानस्तथापि तन्मन्दप्रभावत्वात्सर्वे सामन्ता मण्डलेश्वरादयः स्वतन्त्रा जज्ञिरे। न ह्येतावदेव, किन्तु पाटणराजधानीमपि करगतीकर्तुमीहाश्चक्रिरे, तत्रावसरेऽतिभीषणे सकलजनताप्राणप्रयाणकारिकाले समुपस्थिते वाघेलवंशीया भीमदेवस्यात्यन्तं साहाय्यमकृषत, तावदकस्मादेवाऽर्णोराजः कालमकरोत्।
एतदन्तरे कुमारपालो देवलोकादागत्य स्वप्ने भोलाभीमदेवं प्रत्यक्षीभूयैवमुवाच-'भीमदेव! लवणप्रसादं महामण्डलेशं विधेहि, तदात्मजं वीरधवलं युवराजं कृत्वा निजस्योत्तराधिकारिणं कुरुष्व।' इति सूचयित्वा स देवोऽदृश्योऽभवत्। तदनु भोलाभीमदेवेन लवणप्रसादस्तत्राणहिल्लवाडनगरे महामण्डलेश्वरोऽकारि, तत्पुत्रं वीरधवलं च स्वीयोत्तराधिकारिणं कृत्वा युवराजपदे विन्यस्तवान्। पाटणपुरीयाऽशेषसामन्ता अत्युद्धता मदोन्मत्ताश्चासन्। एतेषामानुकूल्यकरणमतिदुष्करमासीदत एव कया रीत्या खल्वेते मदधीना जायेरन्? इति पितापुत्रावनवरतमनेकविधविचारं कुर्वन्तावास्ताम्। प्रान्ते त्वेवं निश्चिक्याते-यन्मया लवणप्रसादेनाऽत्रैव महाराजभीमदेवपार्श्वे स्थित्वा सर्व राजकार्य करणीयम्। त्वया युवराजेन धवलक्कपुरं गत्वा नवं राजतन्त्रं स्थापयित्वा सैन्यबलमेधयता मदोद्धताः सामन्ताः साधनीयाः।' तत्पश्चादचिरादेव युवराजवीर
134