________________
श्री जगडूशाह-चरित्रम् क्षितिपेषु मिथो घोरयुद्धकरणात्परस्परमैत्रीभावत्यागात्क्षीणधनजनपराक्रमेषु शाहबुद्दीनः ११९३ ख्रिष्टाब्दे भारतेऽस्मिन्महता सैन्येन सहागत्य पृथ्वीराजं विजित्य, दिल्ली शाकम्भरी च स्वायत्तीकृत्य, पृथ्वीराजं बद्धवा गजनीमानीय कारागारेऽस्थापयत्। अमुष्य भगिनीपतिं समरसिंहमपि समरे सपुत्रं निहत्य तद्राज्यमग्रहीत्। (११९४) वेदनन्दरुद्रख्रिष्टाब्देऽशेषभारतीयनरपालीयमिथोद्रोहतरुबीजं जयचन्द्रमपि जित्वा कान्यकुब्जमपि जग्राह। विजितो जयचन्द्रो नष्टराज्यः काशीपुरीमागात्। तत्र कियन्तं कालमुषित्वा राज्यस्थानं (राजपुतानां) आयातः।
विजयी शाहबुद्दीनस्तु देहली जित्वा तत्र निजप्रधानं कुतुबुद्दीनमधिपतिं कृत्वा स्वराजधानीं गजनीमायातः। एष कुतुबुद्दीनः सन् ११९४ वर्षे गुर्जरमपि विजिग्ये। विजिते च गुजरे भोलाभीमदेवभूपतिरात्मरक्षार्थ नंष्ट्वा क्वचिदपलायिष्ट। अमुष्य सेनापतिर्जीवनराजः कुतुबुद्दीनेन साकं भीषणशौर्य प्रकटयंश्चिरमयुध्यत। परन्तु स काल आर्यावर्त्तस्याऽस्य भारतस्य पराधीनतार्थमेव विधिना निर्मापित इति हेतोरेव तस्य यवनस्य स्ववसरोऽमिलत्। यद्यपीयं गुर्जरीयाऽणहिल्लपट्टणराजधानी पराधीनतामुपेयुषी, तत्पतिना भीमदेवेनाप्यनिच्छया पलायनं शरणीकृतम्। परं च स यवनस्तदानीं तत्र पुरे स्वराज्यं तिष्ठापयिषु भूत्। केवलं लुण्टयित्वा देहलीमगात्, तत्र तत्स्थापितः कश्चिदेकोऽधिकारी प्रजास्वन्यायं कुर्वस्त्रासयाञ्चकार। अत एव समस्ता लोकास्त्रस्ताः सन्तस्त्रायस्व त्रायस्वेति पूच्चक्रुस्तमाम्।
अस्मिन् विपत्त्यन्तरे भोलाभीमदेवस्य सामन्त-माण्डलिकप्रभृतयो निजस्वार्थसाधनपरायणा आसन्। केवलमेक एव वाघेलवंशीयराजानः स्वदेशस्येदृशी दुर्दशामालोक्य मनसा दन्दह्यमाना आसन्। अर्णोराजो (आनाजी) गुर्जरेश्वरकुमारपालस्य मातृष्वसेयः
133