________________
श्री जगडूशाह-चरित्रम् यानि यानि धर्मस्थानानि कारितानि तान्यशेषाणि द्वेषान्नाशितवान्। कपर्दिमन्त्रिणमतितसतैलपूर्णकटाहे निक्षिप्य मारितवान्। तथा हेमचन्द्रसूरेर्मुख्यशिष्यं रामचन्द्रकविमग्निसन्तसताम्रपट्टोपरि निवेश्य घातितवाँश्च। तदनु गुर्जरप्रसिद्धसुभटशिरोमणिमाम्रभट्टमाम्बडापरनामधेयमपि निहन्तुं भूयस उपायान् रचयामास। परमाम्रभट्टस्तेन साधं युध्यमानः शूरतां दर्शयन् स्वप्राणमर्पयामास। प्रान्तेऽजयपालोऽप्यचिरादेव वर्षत्रयमानं राज्यं कृत्वा मृत्वा दुर्गतिमनैषीत्। विक्रम १२३५ वत्सरे द्वितीयो 'भीमदेवो' गुर्जराधिराजो बभूव। अयं खलु महानिष्कपट आसीत्। अमुष्मिन् राजनि सति महान्ति परिवर्तनान्यभूवन्। अस्मिन्नेव समयेऽर्बुदाचले परमारजयन्तसिंहो राजाऽऽसीत्। शाकम्भयाँ (अजमेरपुरे) सोमेश्वरभूपालः, अस्यात्मजपृथ्वीराजचोहाणो देहल्याम्, कन्नोजे (कान्यकुब्जे) जयचन्द्रराष्ट्रकूटः-राठौडः, चित्तौरे (चित्रकूटे) समरसिंहप्रभृतिप्रबलपराक्रमिणो राजान आसन्। हन्त! एतदार्यावर्त्तस्य दौर्भाग्योदयवशादतुलभुजबलशालिष्वेतेषु भूजानिषु मिथोऽन्तराऽन्तरा महान् द्वेष उदपद्यत। तत्र हेतुरर्बुदाचलाधीश्वरस्य जयन्तसिंहस्य पुत्री 'इच्छनकुंवरी' जज्ञे। अनेनैव कारणेन भोलाभीमदेवस्य जयन्तसिंहसोमेश्वर-पृथ्वीराजैः साकं घोरतरः सङ्ग्रामोऽजायत। युद्धेऽस्मिन् भोलाभीमदेवे पराजितेऽपि पृथ्वीराजो महता क्लेशेन विजयमलब्ध। अस्यानेके वीरसुभटा अस्मिन् समरे मृता महानिद्रां चक्रुः। अमुना परस्परायोधनेन शाहबुद्दीनस्य महानेव लाभो जातः। यद्यप्येनं युयुत्सया समराङ्गणे समायातं दिल्लीपतिः पृथ्वीराजः ससवारान् व्यजेष्ट। वारद्वयं भोलाभीमदेवोऽप्यमुं जिगाय। तथाप्येष समरोत्साहमत्यजन्नवसरं पश्यन्नस्मिन्नेवावसरे सहसैव भारतमेनमाक्रमितुमागात्। तदानीं कान्यकुब्जाधिपतिः पृथ्वीराजेन सत्रा विरोधसद्भावात्तस्मै साहाय्यं दत्तवान्। इह खल्वार्यभारते सर्वेषु पराक्रमिषु
132