SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् वलीक्षितिपतिर्भीमदेवो गुर्जरमशशासत्। तत्रामुष्य मन्त्री सेनापतिविमलमन्त्री बभूव। अयं हि वनराजक्षितिपतेर्दण्डनायकलहिराख्यवंशीय आसीत्। विमलमन्त्रिणः पिता वीरमन्त्री दुर्लभराजस्य मन्त्र्यासीत्। बाणावलीभीमदेवस्य द्वे राज्यौ बभूवतुः। एकोदयमती, द्वितीया बहुलादेवी। भीमदेवे देवलोकमुपेयुषि उदयमत्याः कुक्ष्युद्भुतः 'कर्ण' विक्रमीय ११२८ वत्सरे गुर्जराधीश्वरो जज्ञे। असौ द्वात्रिंशद् वर्षाणि राज्यं चकृवान्। पञ्चाशदुत्तरैकादशशततमे विक्रमवत्सरे कर्णभूपस्य पुत्रः सिद्धराजो गुर्जरेश्वरो बभूवान्। अयं महापराक्रमिष्णुर्बलीयांश्चासीत्। अयमात्मीयातुलविक्रमेणाष्टादशदेशान् स्वायत्तान् कृत्वा तेषु स्वशासनं ग्राह्यकरं च स्थापितवान्। अस्य महामात्यो मुञ्जालनामाऽभूत्। अयं राजा जैन आसीत्। अमुष्य राज्यसमये सौराष्ट्रदेशश्चाम्पराजमन्त्रिकुलोत्पन्नसज्जनाख्यमन्त्रिणो हस्त आसीत्। खम्भातपुराधिपत्यमुदयननाम्नि मन्त्रिण्यासीत्। वस्तुपालमहामात्यपूर्वजश्चण्डप्रसादः सिद्धराजमहीभुजः कोशाध्यक्ष आसीत्। अमुष्य पुत्रः सोममन्त्री सिद्धराजमहीभर्तुर्मन्त्र्यासीत्। अपरोऽपि कश्चित्कपर्दिनामा मन्त्र्यासीत्। एवमनेकजैनमन्त्रिभिः परिवेष्टितः सिद्धराजः क्षितीश्वरो जगत्प्रख्यातस्य हेमाचार्यस्य भक्तोऽभवत्।' 'सिद्धराजशासनानन्तरं तद्भ्रातृजः कुमारपालो गुर्जरराजसिंहासनमारुरोह। एतद्राज्यसमये जैनानां प्राधान्येन प्राबल्यं सर्वेषां सुधियां विदितमेवास्ति। अहिंसामयधर्म-प्रधानानुरागिकुमारपालोत्तरं विक्रम १२३० संवत्सरे अजयपालनाम जैनानामत्यन्तद्वेषी गुर्जराधीशोऽजायत। अनेन त्रीण्येव हायनानि राज्यमकारि। अयमकाल एव कुमृत्युमयाञ्चक्रे। अजयपालराजा कुमारपालेन 131
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy