________________
श्री जगडूशाह-चरित्रम् जायत। इत्थं षण्णवत्येकशतवर्षाणि (१९९) यावच्चापोत्कटवंशीयवनराजप्रभृतिसामन्तसिंहपर्यन्ताः सप्तराजानो गुर्जरदेशं शासितवन्तः।'
'अथ मूलराजो गुर्जरीयस्वामित्वमुपेत्य नयेन प्रजाः पालयन् राज्यमवीवृधीत्। सौराष्ट्र-कच्छ-सिन्धप्रभृतिकतिपयदेशान् विजित्य स्वायत्तीकृतवान् सः। रणोत्साही महाप्रतापी मूलराजः खल्वेकदा तैलङ्गदेशे युध्यमानं 'वारय' नामानं सेनानी दुर्दशं विधाय जिगाय च यथा स समरं विहाय कान्दिशीको भवन् पलायनमेवाङ्गीचक्रे। इत्थमेव साम्भरनगरनाथोऽप्यमुना सह योद्धमाजी समेत्यैनमजय्यं विज्ञाय रणाङ्गणमपहाय क्वचिदनशत्। चिरकालमेष गुर्जरदेशीयराज्यसुखमनुभूय स्वपुत्रं चामुण्डराजं गुजरेश्वरं विधाय सुरलोकमगात्। चामुण्डराजस्तु युवराजकालादेव सर्वत्र लोके स्वपराक्रम प्राख्यापयत। असौ खलु लाटदेशाधिपतिं निर्जित्य स्वाधीनमकरोत्।'
'एतदुत्तरमेतद्राजसिंहासने वल्लभराज-दुर्लभराजी राजानौ बभूवतुः।
दुर्लभराजमृतान्तरं तद्भातृपुत्रो युवराजो भीमदेवस्तारुण्य एव गुर्जराधिपत्यमाप। अयमेकदा मालवदेशाधिपं भोजराज सहसैवाऽजैषीत्। एतच्छासनकाले गजनीपुराधीशः सुलतानमुहम्मदाभिधानो यदाऽणहिल्लपुरमाक्रान्तवान्, तदा पराजितो भीमदेवः पलायाञ्चक्रे। ततो मुहम्मदः सौराष्ट्रमागत्य प्रख्यातसोमनाथमहेश्वरदेवालयमभनक्, प्रचुरां सम्पत्तिं नीतवांश्च। विक्रमीय १०८० संवत्सरे सुलतानमुहम्मदः सोमनाथदेवालयमभाङ्क्षीत्, लुण्टितवांश्च।
मुहम्मदस्य गजनीपुरगमनान्तरं पुनश्चिरकालपर्यन्तं बाणा
130