________________
श्री जगडूशाह-चरित्रम्
साहाय्येन नवीनामेकामणहिल्लवाडानगरीं गुर्वी कमनीयां न्यवासयत् । एषा गुर्जरदेशे सकलपुरवराणां मध्ये केन्द्रायिता जाता। एतन्नगरीगुणानाकर्ण्य श्रीमालपुरतस्तत्र निवसितुं श्रीमालिनो महेभ्या आयातुं लग्ना भूयांसः । तथान्येऽपि नानानगरादनेके जैनास्तत्र निवासाय समीयुः । तत्रैव तं वनराजं विधिवन्महता महेन राज्याभिषिक्तमकार्षुः। सिंहासनारूढः स तं चाम्पराजं महामात्यपदे न्ययुङ्क्त । 'निन्नग' नामानं धीमन्तं न्यायविचक्षणं मन्त्रिणं विदधे। एतत्पुत्रं रणकोविदाग्रेसरं लहीराभिधानं प्रसन्नो नरनाथः पट्टणपुरे न्यायाधीशमकरोत्। इतरानपि कियतो योग्यपुरुषान् कोषाध्यक्षतायामतिष्ठिपत्। कियतः प्रधानमन्त्रिप्रमुखानां राज्यकार्यकारिणामधस्तनाधिकारिणः कृतवान् । इत्थं तत्तदधिकारपदे तांस्ताञ्जनान् निपुणान् स्थापितवान् स क्षितिपतिः । इत्थमादित एव पट्टण - पुरीया अशेषा अपि जैना महेभ्यादिजना राज्यकार्यकर्त्तारो जज्ञिरे । एते खलु राजानं तां राजधानीमप्यात्मीयां मन्वाना मनसा वचसा कायेन धनेन च निजनिजाधिकारं नयेन चालयितुं प्रावर्त्तन्त ।'
'अथ पञ्चासरे या पार्श्वनाथप्रभुप्रतिमासीत्तां प्रतिमां तस्या नगर्या दुर्दशत्वे समुपागते सति महादोष्मान् वनराजो निजजनन्याः प्रत्याहिकार्चायै तत्र पाटणपुरे समानीय विशालं भव्यतमं मन्दिरं निर्माय तत्र विधिवत्प्रातिष्ठिपत् । असौ नरपतिश्चाम्पराजमहामात्यप्रभृतिजैनसमाजसंसर्गतस्तथा शीलगुणसूरिसदुपदेशतश्च जैनधर्मे श्रद्धालुर्भवन्नपि नृपत्वाद् धर्मान्तरेऽपि नित्योदारचेता अभवत्। वनराजभूपालात्परं तद्वंशे निरवच्छेदेन सप्तपुरुषान् यावद्राज्यमासीत्। तत्र सप्तमो राजा सामन्तसिंहाख्यो मद्यव्यसनित्वाद्राजयक्ष्ममहारोगग्रस्तो निरपत्यो ममार। अत एवाऽष्टनवत्युत्तरनवम्यां (९९८) शताब्द्यां चावडावंशीयमेतद्राज्यं सोलङ्किवंशीयस्य सामन्तसिंहनृपतेर्भागिनेयमूलराजस्य हस्तगतमध्य
129