SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् प्रतिमा चिरन्तनी समासीत्। परन्त्वेषा प्रतिमा वल्लभीक्षतेः प्रागेवधिष्ठातृदेवताप्रभावादलक्ष्यीभूय पञ्चासरमायिष्ट, तत्रैव कियन्तं कालमर्चिताऽऽसीत्, तत एवैषा पञ्चासर-पार्श्वनाथेति प्रख्यातिमियाय सर्वत्र लोके।' ___ 'अथ विक्रमीयाष्टमशताब्धाः प्रायशो मध्यकालेऽमुष्य पञ्चासरस्याप्युच्चस्त्वं दाक्षिणात्यकल्याणीनगर्यामागत्य भूवडसोलकिनमभजत। यदसौ महत्या चतुरङ्गया सेनया सत्रा गुर्जरोपर्याचक्राम। अस्मिन्नेव घोरतरे सगरे युध्यमानो जयशिखरी ममार। तदान्तर्वत्नी तत्पत्नी रूपसुन्दरी स्वबन्धुना सुरपालेन साधं क्वचिदरण्येऽनश्यत्। वैदेशिके राजनि सति सर्वत्र गुर्जरेऽशान्तिः प्रससार! महती चानीतिरुदगच्छत्। सकला अपि प्रजात्रासमापेदिरे। ततश्चान्तर्वत्नीयं रूपसुन्दरी राज्ञी तस्मिन्नेव वने पुत्रं सल्लग्ने जनयामास। तस्य वने जातत्वाद् 'वनराज' इति नाम कृतवती। इयं राज्ञी कस्यचिज्जैनाचार्य-श्रीशीलगुणसूरेराश्रयमधिगम्य गुप्त्या तिष्ठन्ती दशवर्षाणि व्यतीयाय। तदनु राजबीजभूतो वनराजः प्रबलतरभाग्योदये सति निजमातुलालयमागत्य सुखेनाऽतिष्ठत्। बहुधा खलु लोकानां पथि गच्छतां धनादिकं चोरयल्लुण्ठयंश्च शैशव एव दिग्जयिष्णुं दुर्द्धरपराक्रम सर्वत्राऽपप्रथत्। अथैकदा चाम्पराजनामा कश्चिज्जैनमहेभ्योऽमिलत्। अमुं वनराजो योग्यं मत्वा निजपार्श्वे प्रधानमिवास्थापयत। अथान्यदा चाम्पराजसाहाय्येन स वनराजो भूवडसोलकिनः सौराष्ट्रदेशाद्राजग्राह्यं करमादाय यान्तीं चमूमलुण्ठत्। असावित्थमेव लुण्ठनादिकृत्यकरणेनाष्टमीं शताब्दी व्यत्यैत्। नवम्याः शताब्द्याः प्रारम्भ एव गुर्जरोपरि स्वर्णदिवाकरः प्रकाशितुं लग्नः। विक्रमीय ८०२ वत्सरे जाम्बापरनामधेयचाम्पराजमन्त्रिणः 128
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy