SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् एतदुत्तरं कश्चिदितिहासज्ञानपटीयान् महेभ्य एवमाख्यातुमलगत्- 'श्रेष्ठिवर्य ! यथाहमितिहासत एतत्स्वरूपं वेद्मि तथा तत्र भवतामग्रे कथयामि, सावधानतया शृणु। 'विक्रमीयचतुर्थशताब्द्यां वल्लभीपुरीयमीन्नत्यं सर्वेषां श्लाघ्यतममद्भुतमेवाऽऽसीत्। परमेतत्पञ्चसप्तत्यधिकत्रिशताब्द्यां काकुनाम्नो वैशस्य कलहेन नष्टभ्रष्टमजायत। यद्यप्येतस्य यत्किञ्चिदंश एव ननाश, यदग्रेऽपि द्वित्रिशताब्द्यामेतद्दृश्यमासीत्। (४७७)तत्पश्चात्सप्तसप्तत्युत्तरचतुःशताब्द्यां पुनः शिलादित्यक्षितिपतेः शासनकाले श्रीधनेश्वरसूरिरस्मिन्नेव वल्लभीपुरे शत्रुञ्जयमाहात्म्यं निरमिनोत् । एवं (५१०) दशोत्तरपश्चशताब्द्यां श्रीदेवर्द्धिक्षमाश्रमणगणी वल्लभीपुरे जैनागमान् पुस्तकारूढान् व्यधत्त, तत एव वल्लभीवाचना लोके पप्रथे । परमेषा वल्लभीपुरसमृद्धिः सकलापि विक्रमीयचतुःशताब्द्याः पश्चात् क्रमशः कृष्णे पक्षे शशिकलेव ह्रसितुं लग्ना, न कश्चित्तत्र व्यापारस्तस्थिवान्, न वा महर्द्धिकत्वं व्यापारिणामासीत्, सर्वथा निःश्रीकतामेव समपद्यत । ' कियत्यपि काले गते विक्रमीयाष्टम्यां शताब्द्यामेतन्नगरमिव गुर्जरान्तर्गत-वढियारप्रदेशे पञ्चासरनामकं नगरं सर्वतः समुन्नतदशं किलाऽऽर्यावर्त्तीयसकलजनचित्ताकर्षणकारि तदासीत् । तत्रत्यचरमश्चावडा-जयशिखरी नरपतिः पराक्रमी समरविजयी कल्पतरुरिव समस्तसमागतमार्गणगणवाञ्छिताऽशेषप्रदः प्रजापालको न्यायनिष्ठ आसीत् । अमुष्मात्प्राक्, आसीदत्र राजा, को वाऽत्र राजधानीमकार्षीदित्यादिसर्वमविदितमेवास्ति सुविदुषामपीति । केवलमेतदेवाऽवगम्यते, यदस्य जयशिखरिणो राज्ञः शासनकाले पञ्चासरनगरमत्युन्नतावस्थमार्यावर्त्ते खलूच्चकोटिकमभूत्। वल्लभीनगर्यास्तेजसि क्षीणतामुपगते पञ्चासरनगरीयैधमान भाग्यमतितरां जजागार । पुरात्र वल्लभीपुरे बहुमाहात्म्यशालिनी पार्श्वनाथप्रभोः 127 -
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy