________________
श्री जगडूशाह-चरित्रम् गुरुतरमपि यत्नं कुर्वन्त्येव । ' अथास्य भीत्या स पीठदेवः परिम्लानवदनः क्वचिदपि स्थातुं नाऽशकत् । ततो गरीयस्तर - विक्रमिष्णुना तेन सह पीठदेवः सन्धिमकरोत् ।
अथान्यदा तेन जगडूकेन समाकारितस्तत्कालमेव तत्रागतः पीठदेवो मुक्ताऽखर्वदर्पस्तस्मात् कृतज्ञात् सोलसूनोः सत्कृतिमवाप । तदनन्तरं सोलकुलावतंसः स कालवेदी स्वेन कारितं, परिस्फुरत्सत्परिखाभिरामं, रजतगिरिसोदरं, तद्दुर्गं तं पीठदेवमदीदृशत्। अथ द्वाभ्यां स्वर्णशृङ्गाभ्यां शोभमानं, स्वमात्रा कलितं खरमालोक्य नितान्तसञ्जातदुःखान्मुखवान्तभूरिरुधिरः पीठदेवस्तत्रैव दुर्गेककोणे सहसाऽसूनहासीत्। अथ पीठदेवे निधनत्वमापन्ने स सिन्धुमही - पतिरुद्भूतप्रभूतभयस्तं जगडूकमधिकं दानमानोपदादिविधिनाऽभजत। यश्चेत्थं सुचङ्गचामीकरीयशृङ्गयुग्मकलितं खरेण शोभमानं दुर्गमं दुर्गमात्मशक्त्या निर्माप्य तत्र भद्रेश्वरे श्रीलवणप्रसादक्षितिपतेः षट्त्रिंशत्क्षत्रियवंशप्रभवभटजनश्रेणीमोजस्विनीमानीय पीठदेवं मानहीनं व्यधत्त, स जगडूरेवाऽद्वितीयसत्यप्रतिज्ञो विराजते नितराम् ।
वैरिव्रजेन भग्नस्य भद्रेश्वरनगरप्राकारस्य पुनर्निर्माणमितरवीरवरनरदुष्करमासीदथापि तत्सम्पादनेन गुर्जरसौराष्ट्रजनपदीयाऽशेषक्षितिपालेषु जगडूशाहस्य प्रभावः कश्चिदपूर्व एव प्रससार । अत एव तैर्महीपालैरसौ नितरां सत्कृतो जज्ञे । तदानीं भद्रेश्वरपुरनिवासिनस्तत्प्रान्तीयाश्च भूयांसो महेभ्या एकत्रीभूय मिलितुं जगडूशाहसदनमायाताः। अयमपि समागताँस्तान् सर्वान् सम्मानपूर्वकं स्वान्तिके सादरमुपवेशयामास । व्यापारोन्नतिकरीं विविधां वार्तां चिरमालप्य तानपृच्छत्सः । भो मान्यतमा वयोवृद्धाः ! एतस्य कच्छदेशस्य गुर्जरदेशस्य चावनतिं समुन्नतिं च कदा कस्य कस्य च शासने के के कृतवन्तः !
126
-